________________
१. प्रमाणपरिच्छेदः । [४. मतिज्ञानस्य अअप्रहादिभेदेन चातुर्विध्यप्रकटनम् । ] ६६. मतिज्ञानम्-अवग्रहेहापायधारणाभेदाच्चतुर्विधम् । अवकृष्टो ग्रहः-अवग्रहः। स द्विविधः-व्यञ्जनावग्रहः, अर्थावग्रहश्च । व्यज्यते प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनम्-कदम्बपुष्पगोलकादिरूपाणामन्तर्निवृत्तीन्द्रियाणां शब्दादिविषयपरिच्छेदहेतुशक्तिविशेषलक्षणमुपकरणेन्द्रियम् , शब्दादिपरिणतद्रव्यनिकुरुम्बम्, तदुभयसम्बन्धश्च । 5 ततो व्यञ्जनेन व्यञ्जनस्यावग्रहो व्यञ्जनावग्रह इति मध्यमपदलोपी समासः। अथ अज्ञानम् अयं बधिरादीनां श्रोत्रशन्दादिसम्बन्धवत् तत्काले ज्ञानानुपलम्भादिति चेत् । न; ज्ञानोपादानत्वेन तत्र ज्ञानत्योपचारात् , जन्तेविग्रहरूपज्ञानदर्शनेन तत्कालेऽपि चेष्टाविशेषाधनुमेयस्वमज्ञानादितुल्याव्यक्तज्ञानानुमानाद्वा एकतेजोऽवयववत् तस्य तनुत्वेनानुपलक्षणात् ।
10 [५. व्यञ्जनावग्रहस्य चातुर्विध्यप्रदर्शने मनश्चक्षुषोरप्राप्यकारित्वसमर्थनम् ।]
७. स च नयन-मनोवर्जेन्द्रियभेदाच्चतुर्धा, नयन-मनसोरप्राप्यकारित्वेन ध्य अनावग्रहासिद्धेः, अन्यथा तयोर्शयकृतानुग्रहोपघातपात्रत्वे जलानलदर्शन-चिन्तनयोः क्लेद-दाहापत्तेः । रवि-चन्द्राद्यवलोकने चक्षुषोऽनुग्रहोपघातौ दृष्टावेवेति चेत्, न; प्रथमावलोकनसमये तददर्शनात् , अनवरतावलोकने च प्राप्तेन रविकिरणादिनोपघातस्या- 15 (स्य), नैसर्गिकसौम्यादिगुणे चन्द्रादो चावलोकिते उपघाताभावादनुग्रहाभिमानस्योपपत्तेः। मृतनष्टादिवस्तुचिन्तने, इष्टसङ्गमविभवलाभादिचिन्तने च जायमानों दौर्बल्योरःक्षतादि-बदनविकासरोमाञ्चोद्गमादिलिङ्गकावुपघातानुग्रहौ न मनसः, किन्तु मनस्त्वपरिपतानिष्टेष्टपुद्गलनिचयरूपद्रव्यमनोऽवष्टम्भेन हृन्निरुद्धवायुभेषजाभ्यामिव जीवस्यैवेति न ताभ्यां मनसः प्राप्यकारित्वसिद्धिः । ननु यदि मनो विषयं प्राप्य न परिच्छिनत्ति तदा 20 कथं प्रसुप्तस्य 'मेवादी गत मे मनः' इति प्रत्यय इति चेत् । न मेवोदी शरीरस्येव मनसो गमनस्वमस्यासत्यत्वात्, अन्यथा विबुद्धस्य कुसुमपरिमलाद्यध्वजनितपरिश्रमाधनुग्रहोपघातप्रसङ्गात्। ननु स्वमानुभूतजिनस्नात्रदर्शन-समीहितार्थालाभयोरनुग्रहोपघाती वियुध(द्धस्य सतो दृश्येते एवेति चेत् ; दृश्येता स्वमविज्ञानकृतौ तौ, स्वमविज्ञानकृतं क्रियाफलं तु तृप्त्यादिकं नास्ति, यतो विषयप्राप्तिरूपा प्राप्यकारिता मनसो युज्यतेति ब्रूमः। 25 क्रियाफलमपि स्वप्ने व्यञ्जनविसर्गलक्षणं दृश्यत एवेति चेत् । तत् तीव्राध्यवसायकृतम् , न तु कामिनीनिधुवनक्रियाकृतमिति को दोषः ? ननु स्त्यानर्धिनिद्रोदये गीतादिक शृण्वतो व्यञ्जनावग्रहो मनसोऽपि भवतीति चेत् । न तदा स्वमाभिमानिनोऽपि श्रवजाधवग्रहेणैवोपपत्तेः। ननु 'च्यवमानो न जानाति' इत्यादिवचनाद सर्वस्यापि छद्मस्थोपयोगस्यासक्येयसमयमानत्वात् , प्रतिसमयं च मनोद्रव्याणां ग्रहणात् विषयमस-30 म्प्राप्तस्यापि मनसो देहादनिर्गतस्य तस्य च स्वसनिहितहृदयादिचिन्तनवेलायां कथं