________________
महोपाध्यायश्रीयशोविजयकृता
॥ जै न त के भा षा॥
१. प्रमाणपरिच्छेदः।
ऐन्द्रवृन्दनतं नत्वा जिनं तत्वार्थदेशिनम् । प्रमाणनयनिक्षेपैस्तर्कभाषां तनोम्यहम् ॥
[१. प्रमाणसामान्यस्य लक्षणनिरूपणम् । ] ६१. तत्र-स्वपरव्यवसायि ज्ञानं प्रमाणम्-स्वम् आत्मा ज्ञानस्यैव स्वरूपमित्यर्थः, परः तस्मादन्योऽर्थ इति यावत्, ती व्यवस्यति यथास्थितत्वेन निश्चिनोतीत्ये- 5 बंशीलं स्वपरव्यवसायि । अत्र दर्शनेऽतिव्याप्तिवारणाय ज्ञानपदम् । संशयविपर्ययानध्यवसायेषु तद्वारणाय व्यवसायिपदम् । परोक्षबुद्ध्यादिवादिनां मीमांसकादीनाम् , बाह्यार्थापलापिनां ज्ञानाद्यद्वैतवादिनां च मतनिरासाय स्वपरेति स्वरूपविशेषणार्थमुक्तम् । ननु यद्येवं सम्यग्ज्ञानमेव प्रमाणमिप्यते तदा किमन्यत् तत्फलं वाच्यमिति चेत् । सत्यम् ; स्वार्थव्यवसितेरेव तत्फलत्वात् । नन्वेवं प्रमाणे स्वपरव्यवसायित्वं न स्यात् , 10 प्रमाणस्य परव्यवसायित्वात् फलस्य च स्वव्यवसायित्वादिति चेत् ;न; प्रमाण-फलयोः कथञ्चिदभेदेन तदुपपत्तेः । इत्थं चात्मव्यापाररूपमुपयोगेन्द्रियमेव प्रमाणमिति स्थितम् । न ह्यव्यापृत आत्मा स्पर्शादिप्रकाशको भवति, निर्व्यापारेण कारकेण क्रियाजननायोगात् , मसृणतूलिकादिसनिकर्षण सुषुप्तस्यापि तत्प्रसङ्गाच्च । ६२. केचित्तु
"ततोऽर्थग्रहणाकारा शक्तिर्ज्ञानमिहात्मनः करणत्वेन निर्दिष्टा न विरुद्धा कथश्चन ॥१॥"
[तत्त्वार्थश्लोकवा० १.१.२२ ] इति-लब्धीन्द्रियमेवार्थग्रहणशक्तिलक्षणं प्रमाण सङ्गिरन्ते तदपेशलम् ; उपयोगात्मना
15