________________
सूरिविरचितम् ] श्रीपार्श्वजिनस्तवनम् ।
[ ६१ ] श्रीहेमविमलसूरिप्रणीतं प्रतिपदं कमलशब्दश्लेषमयं श्रीपार्श्वजिनस्तवनम् ।
१
श्रीनिर्वृतिकमलदृशः करकमलक्रीडनैककलहंसम् ।
प्रणतापूरितकमलं प्रातःसमये सुदृष्टमुखकमलम् ॥ १ ॥
3
४
$
जिनपं सश्रीकमलं सुरनायकसेव्यमानपदकमलम् । प्रतिपादं कमलपदैः पृथगर्थैः स्तौमि वरकमलम् ॥ २ ॥
७
८
अक्षीणलक्ष्मीकमलङ्घनीयवाचं भवामे कर्म प्रधानम् ।
११
१३
२१७
१०
दीनोल्लसत्शूकमलब्धदोषं पङ्कप्रणाशे कमलस्वभावम् ||३||
१२
युगादिनाथं कमलाङ्कवक्त्रं गीतप्रतापं कमलाननाभिः ।
१४
१५
संसारदुष्टाऽकमलप्रमुक्तं स्तवीमि निःशङ्कमलास्यरङ्गम् ॥ ४ ॥
१६
१७
अनन्तसंवित्कमलं भजे विभुं स्वपाणिदीप्त्या कमलापलापिनम् ।
१८
१९
अचाल्यचित्तं कमलाविलासतो नश्यत्तमः शोकमलक्ष्मविग्रहम् ॥
टिप्पनम् ।
१. मुक्तिस्त्रियः । २ हस्ताम्बुज० । ३ कमला - श्रीः । ४ मुखपद्मम् । ५ अलम् - अत्यर्थम् । ६ चरणपङ्कजम् । ७ प्रधानशोभम् । ८ अळङ्घनीय० इति पदच्छेदः । ९ भवरोगे प्रधानौषधम् । १० शुकःदया । ११ जल० । १२ मृगाङ्क० । १३ स्त्रीभिः । १४ पापमलेन मुक्तम् । १५ लास्यम् - नृत्यम् । १६ कं सुखं मलति-धरतीति कमलम् । १७ ताम्र० । १८ वराङ्गना० । १९ अलक्ष्मविग्रहं निःकलङ्ककायम् ।