Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 244
________________ योगबिन्दु सूत्र : २३९-२४०-२४१-२४२ हेतुत्वात्, ततस्तत्राप्यागमाधीने व्यवहारे किं पुनरितररूप इत्यपिशब्दार्थः, हाठिक:-स्वविकल्पप्रवृत्त्यागमनिरपेक्षत्वेन बलात्कारचारी 'यस्तु' यः पुनर्योगी 'हन्त' इति सन्निहितसभ्यामन्त्रणं, (अज्ञानां)स शेखरः-शिरोमणिर्वर्तते, अनुपायप्रवृत्तत्वात्तस्य ॥२३९॥ किं च तत्कारी स्यात्स नियमात् तद्वेषी चेति यो जडः । - आगमार्थे तमुल्लंघ्य, तत एव प्रवर्तते ॥२४०॥ तत्कारी-तत्करणशील:, स्याद्-भवेत्, स नियमाद्-अवश्यंभावेन, तवेषी च-स्वयमेव क्रियमाणवस्तुद्वेषवाँश्च इत्येतद्रूपः सम्पद्यते यः कश्चित् जडोमन्दः आगमार्थे-आगमविहिते चैत्यवन्दनादौ विधातुमिष्टे तमागममुल्लंघ्यअतिक्रम्य तत एवागमादेव, प्रवर्तते आगमनिरूपितविधिनिरपेक्षतयाऽऽगमार्थमनुतिष्ठन्नपिनतद्भक्त: किंतु तद्विष्ट एव, द्वेषमन्तरेण तदुल्लङ्घनाभावादिति भावः ॥२४०॥ एतदेव व्यतिरेकतो भावयति न च सद्योगभव्यस्य, वृत्तिरेवंविधापि हि । न जात्वजात्यधर्मान्यजात्यः सन् भजते शिखी ॥२४१॥ नच-नैव सद्योगभव्यस्य-परिशुद्धयोगयोग्यस्य जन्तोः वृत्तिः-समाचाररूपा एवंविधापि हि-तत्कारित्वतद्द्वेषित्वलक्षणा किं पुनस्तद्वेषित्वलक्षणैवेत्यपिहिशब्दार्थः । एतदेव प्रतिवस्तूपमया भावयन्नाह न-नैव जातु-कदाचित् अजात्यधर्मान्-कुजातमयूरचेष्टितरूपान् यत्-यस्मात्, जात्यः-सर्वोपाधिविशुद्धः, सन्-भवन्, भजते-सेवते शिखी-मयूरः ॥२४१ ।। एतदेव समर्थयमान आह एतस्य गर्भयोगेऽपि, मातृणां श्रूयते परः । औचित्यारम्भनिष्पत्तौ, जनश्लाघ्यो महोदयः ॥२४२॥ एतस्य-सद्योगभव्यस्य तीर्थकरादेर्जीवस्य गर्भयोगेऽपि'किं पुनरुतरकाल इत्यपिशब्दार्थ: मातृणां-जनयितृणाम् । श्रूयते-शास्त्रेषु पर:-प्रकृष्टः औचित्यारम्भनिष्पत्तौ-समुचितानुष्ठाननिवृत्तौ विषये जनश्लाघ्यो-लोकप्रशंसनीयः महोदयः-प्रशस्तमाहात्म्यलाभलक्षण: । 'तथा चैवं पठ्यते-'"जणणी सव्वत्थ १. तथा च एवं पठ्यते-AB.C:; Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346