Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust
View full book text
________________
योगबिन्दु सूत्र : ३७६-३७७-३७८-३७९
आस्रवो बन्धहेतुत्वाद्बन्ध एवेह यन्मतः । स साम्परायिको मुख्यस्तदेषोऽर्थोऽस्य सङ्गतः ॥ ३७६ ॥ आस्रवत्यापतति कर्म यस्मिन्स आस्रवः शुद्धोऽशुद्धश्च योगभूत आस्रवः, बन्धहेतुत्वाद्बन्धस्य कारणत्वात् बन्ध एव - ज्ञानावरणादिकर्मरूप एव, कारणे कार्योपचारात् इह प्रक्रमे यद्यस्मात् मतः- संमतः साम्परायिकः - कषायप्रभवः सूक्ष्मसम्परायगुणस्थानकावसानः मुख्यो - ऽनुपचरितः, तत्तस्मात् एषः साम्परायिकबन्धलक्षणः अर्थोऽभिधेयम्, अस्य - आस्रवस्य सङ्गतः ॥३७६॥ एवं चरमदेहस्य सम्परायवियोगतः ।
इत्वरास्त्रवभावेऽपि, स तथानास्त्रवो मतः ॥ ३७७ ॥ एवं यथा सकषायस्य सास्रवो योगस्तथा चरमदेहस्य - पश्चिमशरीरस्य सम्परायवियोगतः - कोपादिकषायविरहात् । 'इत्वरास्रवभावेऽपि ' केवलं योगप्रत्ययद्विसामयिकबलवेदनीयबन्धसद्भावे किं पुनस्तदभाव इत्यपिशब्दार्थः । एवंविधो यः सः 'तथा' तत्प्रकारो अनास्रवो द्वितीयो योगभेदो मतः ॥ ३७७ ॥ ननु कथं सास्रवोऽपि योगोऽनास्रव उक्त इत्याशंक्याह
२६०
निश्चयेनात्र शब्दार्थः, सर्वत्र व्यवहारतः । निश्चयव्यवहारौ च द्वावप्यभिमतार्थदौ ॥ ३७८ ॥ निश्चयेनोपलक्षितानिश्चयप्रापकादित्यर्थः अत्र - योगाधिकारे शब्दार्थोऽनास्रवादिशब्दगतः सर्वत्र - 'सर्वेषु व्यवहारतो - व्यवहारादेशात् । निश्चयेन ह्ययोगिकेवलिन्यनास्रवो योग:, यस्तु सयोगिन्यप्यनात्रत्वेन योगोऽभिधीयते स निश्चयहेतुना व्यवहारेणेति । एवं च सति 'निश्चयव्यवहारौ च' निश्चयो व्यवहारश्चेत्यर्थः द्वावप्यभिमतार्थदौ - इष्टफलदायकौ वर्तेत इति ॥३७८ ॥
अथोपसंहरन्नाह
संक्षेपात्सफलो योग, इति सन्दर्शितो ह्ययम् ।
आद्यन्तौ तु पुनः स्पष्टं, ब्रूमोऽस्यैव विशेषतः ॥३७९॥ संक्षेपात्-समासात् सफलः सह फलेन योग इति - एवं सन्दर्शितः ।
१. सर्वेषु पदेषु व्यवहा -A.B.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346