Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 331
________________ ३०४ योगबिन्दु सूत्र : ५२५-५२६ प्रयोजनमुद्धारस्थानं स्वनाम च सूचयन् शास्त्रकार इदमाह- ... स्वल्पमत्यनुकम्पायै, योगशास्त्रमहार्णवात् । . आचार्यहरिभद्रेण, योगबिन्दुः समुद्धृतः ॥ ५२६॥ स्वल्पमत्यनुकम्पायै-तुच्छमतिजनानुग्रहाय योगशास्त्राण्येव तत्तत्तन्त्रान्तरप्रसिद्धानि महार्णवो-महासमुद्रस्तस्मात् आचार्यहरिभद्रेणेति शास्त्रकृतो नाम किमित्याह योगबिन्दुः समुद्धृतः-पृथक्कृत इतिः ॥ ५२६॥ . अथ शास्त्रकृदेव प्रणिधानमाह- .. समुद्धृत्यार्जितं पुण्यं, यदेनं शुभयोगतः । . भवान्थ्यविरहात्तेन, जनः स्ताद्योगलोचनः ॥ ५२७॥ समुद्धृत्योद्धारस्थानाविसंवादेन पृथक्कृत्य अर्जितमुपात्तं पुण्यं शुभकर्म, यद्विशिष्टस्वरूपं एन-योगबिन्दु, शुभयोगत:-परोपकाररूपशुभव्यापारात्प्रशस्तयोगात् भवान्ध्यविरहाद्रागद्वेषमोहलक्षणसंसारान्धभावस्य परिहारेण तेन-शुभकर्मणा सुकृतेन जनो-भव्यलोक: स्ताद्भवतु कीदृश इत्याह योगलोचन:यथावस्थितवस्तुपरिज्ञानावन्ध्यकारणत्वाद्योग एव लोचनमक्षि यस्य स तथा ॥ ५२७॥ विरह इति च भगवतः श्रीहरिभद्रसूरेः स्वप्रकरणाङ्कप्रद्योतक इति ॥ (समाप्ता चेयं श्री योगबिन्दुप्रकरणवृत्तिः ग्रन्थान ३६२०) ॥ सविवरणः श्री योगबिन्दुप्रकरणग्रन्थः सम्पूर्णः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346