Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 317
________________ .२९० योगबिन्दु सूत्र : ४७४-४७५-४७६-४७७ उपप्लववशात्प्रेम, सर्वत्रैवोपजायते । निवृत्ते तु न तत्तस्मिन्, ज्ञाने ग्राह्यादिरूपवत् ॥४७५॥ उपप्लववशात्-संक्लेशायत्ततया प्रेम-प्रतिबन्धः सर्वत्रैव-बाह्याभ्यन्तररूपे वस्तुनि उपजायते । निवृत्ते तु-निवृत्तिभाजि पुनः न तत्प्रेम तस्मिन्नुपप्लवे जायते । दृष्टान्तमाह 'ज्ञाने' तथागतसम्बन्धिन्युपप्लवव्यावृत्तौ भवन्मतेन 'ग्राह्यादिरूपवत्" । तथा च तव सिद्धान्तः "ग्राह्यं न तस्य ग्रहणं न तेन, ज्ञानान्तरग्राह्यतयापि शून्यम् ॥ तथापि च 'ज्ञानमप्य(य)प्रकाश:, प्रत्यक्षतस्तस्य तथाधि(वि) रासीत् ॥१॥" ||४७५ ॥ एवं सति यत्सिद्धं तदर्शयति . स्थिरत्वमित्थं न प्रेम्णो, यतो मुख्यस्य युज्यते । ततो वैराग्यसंसिद्धेर्मुक्तिरस्य नियोगतः ॥४७६॥ स्थिरत्वं-स्थिरभावलक्षणमात्मदर्शनद्वारेण परैरुद्रावितं इत्थमुपप्लवहासात् न 'प्रेम्ण' आत्मस्नेहलक्षणस्य यतो-यस्मात् मुख्यस्य-प्रधानस्य पुत्रकलत्रादिबाह्यार्थगोचर स्नेहहेतुतया संसारकारणस्येत्यर्थ: युज्यते-घटते, ततः प्रेम्णोऽस्थैर्यात् वैराग्यसंसिद्धेर्मुक्तिरस्याऽऽत्मनो नियोगत:-कथञ्चित्स्थिररूपस्यापि ॥४७६ ॥ अत्रैव युक्तयन्तरमाह बोधमात्रेऽद्वये तत्त्वे, कल्पिते सति कर्मणि । कथं सदास्या भावादि, नेति सम्यग्विचिन्त्यताम् ॥४७७॥ बोधमात्रेऽत एव अद्वये-स्वव्यतिरिक्तकर्मादिविकले तत्त्वे-परमार्थे तदा कल्पिते-कल्पनामात्रविषये, सति कर्मणि शुभाशुभे । तथा च भवत्सिद्धान्त:"चित्तमेव हि संसारो, रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते" ॥१॥ कथं सदा-सर्वकालं अस्या मुक्तेः भावादि भावोऽभावो वा न-नैव स्यात् ? इत्येतत्, सम्यग्विचिन्त्यतामिति । तथा च पठन्ति - "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां, कादाचित्कत्वसम्भवः ॥१॥" ॥४७७॥ अथ नित्यमतनिराकरणार्थमाह१. ग्राह्यरूपत्वात्-A; २. च भवसिद्धान्त:-A; ३. ज्ञानमया प्रकाश:-B.C:: ४. तथाविरासीत्-C.; ५. स्नेहैकहेतुतया-B.C Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346