Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 319
________________ २९२ योगबिन्दु सूत्र : ४८१-४८२-४८३-४८४-४८५ भवति परमताङ्गीकाररूपः, अनुभयस्वभावत्वे सम्भवो ध्रुवः, तादृशस्य वस्तुनो वन्ध्यासुतस्येवाभावात् ॥४८१॥ पुनस्तृतीयविकल्पमेवाधिकृत्याह यत्तथोभयभावत्वेऽप्यभ्युपेतं विरुध्यते ।। परिणामित्वसङ्गत्या, न त्वागोऽत्रापरोऽपि वः ॥४८२॥ ____ यद्-यस्मात् तथोभयभावत्वेऽपि 'सति, किं पुनः केवले कर्तृत्वे भोक्तृत्वे वाऽभ्युपगत इत्यपिशब्दार्थः, अभ्युपेतमैकान्तिकरूपत्वं 'विरुध्यते' कथमित्याह परिणामित्वसङ्गत्या परिणामोऽवस्थितस्यैवावस्थान्तरप्राप्तिस्तद्वत्त्वप्राप्त्या, न तु न पुनः आग:-अपराध: अत्र-अभ्युपगमे, अपरोऽपि कश्चित् व:-युष्माकम्, तस्मादुभयरूप एवात्माऽभ्युपगन्तुमुचित इति ॥४८२ ॥ अपि च एकान्तनित्यतायां तु, तत्तथैकत्वभावतः । । भवापवर्गभेदोऽपि, न मुख्य उपपद्यते ॥४८३॥ .. एकान्तनित्यतायां तु-परेणाभ्युपगतायां पुन:, किमित्याह तत्तथैकत्वभावतः' तस्यात्मनस्तथैकान्तेनैकत्वभावत: कारणात् 'भवापवर्गभेदोऽपि' न केवलं कर्तृत्वभोक्तृत्वादीत्यपिशब्दार्थः न मुख्य:-अनुपचरित: उपपद्यते-घटते ॥४८३॥ कुत इत्याह स्वभावापगमे यस्माद्वयक्तैव परिणामिता । तयाऽनुपगमे त्वस्य, रूपमेकं सदैव हि ॥४८४॥ स्वभावस्य-भवभाविनो मुक्तावपगमे यस्मात्कारणात् व्यक्तैव-स्फुटमेव परिणामिता प्राप्नोति । तया परिणामितया, अनुपगमे त्वस्य भवस्वभावस्य, किमित्याह 'रूपं' स्वलक्षणम् ‘एकं सदैव हि' भवेऽपवर्गे च ॥४८४॥ तत्पुन विकं वा स्यादापवर्गिकमेव वा । आकालमेकमेतद्धि, भवमुक्ती न सङ्गते ॥४८५॥ तत्पुना रूपं 'भाविकं'-संसारभवं वा स्यादापवर्गिकमेव वा मोक्षानुगतं वा नित्यात्मनः । ततः किमित्याह आकालं-सर्वकालमपि एकं अनानारूपं एतत् रूपं हिर्यस्मात् । ततो भवमुक्ती-संसारमोक्षरूपे 'न सङ्गते', स्वभाव१. तत्प्रकारोभयस्वभावत्वे सति-AB Jain Education International For Personal & Private Use Only www.jainelibrary.org


Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346