Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 320
________________ योगबिन्दु सूत्र : ४८५-४८६-४८७-४८८-४८९ २९३ भेदाक्षेपकत्वात्तयोः ॥४८५॥ अत्रैवाभ्युच्चयमाह बन्धाच्च भवसंसिद्धिः, सम्बन्धश्चित्रकार्यतः । तस्यैकान्तस्वभावत्वे, न त्वेषोप्यनिबन्धनः ॥४८६॥ __ बन्धात्-कर्मसंचयरूपात् च: समुच्चये 'भवसंसिद्धिः'-संसारोपपत्तिः सम्बन्धश्चित्रो नानारूपः, चित्रकार्यत:-कार्यवैचित्र्यात्, न ह्यचित्रात्कारणाचित्रकार्यप्रसूतिरिति । यदि नामैवं ततः किमित्याह तस्य आत्मनः, एकान्तकभावत्वे'सर्वथैकस्वभावतायां सत्यां, न त्वेषोऽपि चित्ररूपो बन्धः किं पुनर्भवमुक्ती इत्यपिशब्दार्थः अनिबन्धनः-निनिमित्तश्चित्रपरिणामनिमित्तत्वात्तस्य ॥४८६॥ एवं च सति यत्सिद्धं तदाह.. नृपस्येवाभिधानाद्यः, सातबन्धः प्रकीर्त्यते । अहिशङ्काविषज्ञाताच्चेतरोऽसौ निरर्थकः ॥४८७॥ परे हि नित्येप्यात्मनि सङ्कल्पमात्रभेदादेव सातासातयोः सम्बन्धमभिमन्यते, तनिराकरणार्थमुच्यते 'नृपस्येव' तथाविधनरपतेरिव अभिधानात् राजाऽयमिति भणनरूपात्, यः सातबन्धः-सुखसम्बन्धरूपः प्रकीर्त्यते-नित्यस्याप्यात्मनः परैः, अहिशङ्काविषज्ञातात्-अहिनाऽदष्टस्यापि तथाविधप्रघट्टकवशादहिशङ्काविषमना अहमनेनाहिना दष्ट इत्येवंरूपं तदेव ज्ञातं दृष्टान्तस्तस्मात्, च: समुच्चये इतरो-ऽसातबन्धो यः प्रकीर्त्यते शुद्धसङ्कल्पवशादसौ 'निरर्थकः' एकान्तनित्यसङ्कल्पमात्रभेदस्याप्यसम्भवात् ॥४८७॥ एवं च योगमार्गोऽपि मुक्तये यः प्रकल्प्यते । , सोऽपि निर्विषयत्वेन, कल्पनामात्रभद्रकः ॥४८८॥ एवं चास्मिंश्चार्थे सिद्धे सति 'योगमार्गोऽपि' किं पुनर्भवमुक्ती इत्यपिशब्दार्थ: मुक्तये-मोक्षाय य:-परैः प्रकल्प्यते सोऽपि निर्विषयत्वेनैकान्तनित्यत्वाभ्युपगमानिर्गोचरत्वेन 'कल्पनामात्रभद्रक:'-न पुनः परमार्थस्वरूपः कश्चित् ॥४८८॥ दिक्षादिनिवृत्त्यादि, पूर्वसूर्युदितं तथा । आत्मनोऽपरिणामित्वे, सर्वमेतदपार्थकम् ।।४८९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346