________________
.२९०
योगबिन्दु सूत्र : ४७४-४७५-४७६-४७७ उपप्लववशात्प्रेम, सर्वत्रैवोपजायते ।
निवृत्ते तु न तत्तस्मिन्, ज्ञाने ग्राह्यादिरूपवत् ॥४७५॥ उपप्लववशात्-संक्लेशायत्ततया प्रेम-प्रतिबन्धः सर्वत्रैव-बाह्याभ्यन्तररूपे वस्तुनि उपजायते । निवृत्ते तु-निवृत्तिभाजि पुनः न तत्प्रेम तस्मिन्नुपप्लवे जायते । दृष्टान्तमाह 'ज्ञाने' तथागतसम्बन्धिन्युपप्लवव्यावृत्तौ भवन्मतेन 'ग्राह्यादिरूपवत्" । तथा च तव सिद्धान्तः "ग्राह्यं न तस्य ग्रहणं न तेन, ज्ञानान्तरग्राह्यतयापि शून्यम् ॥ तथापि च 'ज्ञानमप्य(य)प्रकाश:, प्रत्यक्षतस्तस्य तथाधि(वि) रासीत् ॥१॥" ||४७५ ॥ एवं सति यत्सिद्धं तदर्शयति
. स्थिरत्वमित्थं न प्रेम्णो, यतो मुख्यस्य युज्यते ।
ततो वैराग्यसंसिद्धेर्मुक्तिरस्य नियोगतः ॥४७६॥ स्थिरत्वं-स्थिरभावलक्षणमात्मदर्शनद्वारेण परैरुद्रावितं इत्थमुपप्लवहासात् न 'प्रेम्ण' आत्मस्नेहलक्षणस्य यतो-यस्मात् मुख्यस्य-प्रधानस्य पुत्रकलत्रादिबाह्यार्थगोचर स्नेहहेतुतया संसारकारणस्येत्यर्थ: युज्यते-घटते, ततः प्रेम्णोऽस्थैर्यात् वैराग्यसंसिद्धेर्मुक्तिरस्याऽऽत्मनो नियोगत:-कथञ्चित्स्थिररूपस्यापि ॥४७६ ॥ अत्रैव युक्तयन्तरमाह
बोधमात्रेऽद्वये तत्त्वे, कल्पिते सति कर्मणि ।
कथं सदास्या भावादि, नेति सम्यग्विचिन्त्यताम् ॥४७७॥ बोधमात्रेऽत एव अद्वये-स्वव्यतिरिक्तकर्मादिविकले तत्त्वे-परमार्थे तदा कल्पिते-कल्पनामात्रविषये, सति कर्मणि शुभाशुभे । तथा च भवत्सिद्धान्त:"चित्तमेव हि संसारो, रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते" ॥१॥ कथं सदा-सर्वकालं अस्या मुक्तेः भावादि भावोऽभावो वा न-नैव स्यात् ? इत्येतत्, सम्यग्विचिन्त्यतामिति । तथा च पठन्ति - "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां, कादाचित्कत्वसम्भवः ॥१॥" ॥४७७॥ अथ नित्यमतनिराकरणार्थमाह१. ग्राह्यरूपत्वात्-A; २. च भवसिद्धान्त:-A; ३. ज्ञानमया प्रकाश:-B.C:: ४. तथाविरासीत्-C.; ५. स्नेहैकहेतुतया-B.C
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org