________________
२८९
योगबिन्दु सूत्र : ४७१-४७२-४७३-४७४ तामिति । उभयस्वभावत्वे हि यदेव 'किञ्चिन्न प्रवर्तते तदेवापरजन्मस्वभावम'परात्मभावस्वभावरूपं वर्तत इति बलाच्छब्दार्थान्यथानुपपत्त्याऽन्वयः सिद्ध इति ॥४७१॥ अथ प्रकृतयोजनामाह
अन्वयार्थश्च न आत्मा, चित्रभावो यतो मतः ।
न पुनर्नित्य एवेति, ततो दोषो न कश्चन ॥४७२॥ अन्वयार्थस्योत्पादव्ययध्रौव्यलक्षणस्य वस्तुनो योऽन्वयरूपोंऽशः पुनःध्रौव्यनामा, नोऽस्माकं, आत्मा 'चित्रभावो'-नानाविधपरिणामो यतो 'मतो'ऽभिप्रेतः । व्यवच्छेद्यमाह'न पुनर्नित्य एव' अप्रच्युता'नुत्पत्तिस्थिरैकरूपः पराभ्युपगतः । इतिः पादपरिसमाप्तौ । ततो नित्यत्वप्रतिषेधाद् दोषो बन्धमोक्षाद्यनुपपत्तिरूपो न कश्चनेति ॥४७२ ॥ परप्रयुक्तदूषणोत्तरायाऽऽह
न चात्मदर्शनादेव, स्नेहो यत्कर्महेतुकः ।
नैरात्म्येऽप्यन्यथाऽयं स्याज्ञानस्यापि स्वदर्शनात् ॥४७३॥ .. न चात्मदर्शनादेवाऽऽत्माऽवलोकनमात्रात् 'स्नेह' आत्मविषय एव । कुतः ? यत्-यस्मात्, कर्महेतुर्क:-चारित्रमोहनीयकर्मनिमित्तः स्नेहः । अत्रैव विपक्षे बाधामाह ' नैरात्म्येऽपि' पराभ्युपगते सति अन्यथा-कर्महेतुत्वानभ्युपगमे सति अयं-स्नेह: 'स्यात्'-भवेत् कुत इत्याह 'ज्ञानस्यापि'-क्षणमात्रस्थायिनः 'स्वदर्शनात्'-स्वसंवेदनप्रत्यक्षेण समवलोकनात् ॥४७३॥ . .
अधुवेक्षणतो नो चेत्, कोऽपराधो ध्रुवेक्षणे । ... तद्गता कालचिन्ता चेन्नासौ कर्मनिवृत्तितः ॥४७४॥
अध्रुवेक्षणतो-ऽध्रुवस्यास्थिरस्यात्मन एवावलोकनात् नो चेद्यदि स्नेहः । आचार्यः पृच्छति'कोऽपराधो ध्रुवेक्षणे' ध्रुवस्य-नियतस्यात्मनोऽवलोकने ? अथ परः, तद्गता-अनि(?नि)त्यात्मविषया कालचिन्ता-'आगामिनि काले सुखप्राप्तिदुःखपरिहारौ कथं मे स्याताम्' एवंरूपा चेत्-यदि । आचार्य:न-नैव असौ-चिन्ता, कुत इत्याह कर्मनिवृत्तितः सिद्धयोगानां योगिनामुपप्लवहेतुकर्महासात् ॥४७४॥ एतदेव भावयति
१. किश्चिन्निव प्रवर्तते-AB.C:; २. परात्मलाभरूपं-A; २. नुत्पन्नस्थि-AB.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org