________________
योगबिन्दु सूत्र : ४६८-४६९-४७०-४७१
भावतः-सम्भवात् इदमुक्तं भवति - यदि सर्वथा क्षणिक एवायमात्मा, तदा तस्य द्वितीयक्षणे सर्वथोच्छेदेन हेतोरभावान्नोत्तरक्षणप्रसूति: प्रसज्यते । अथोत्तरक्षणप्रसूतिरभ्युपगम्यते, तदा पूर्वक्षणस्यैव कथञ्चिदभावीभूतस्योत्तरकार्यतया भवनेनान्वयः समाढौकत इति ॥४६८ ॥ एतदेव भावयति
२८८
भावाऽविच्छेद एवायमन्वयो गीयते यतः ।
स चानन्तरभावित्वे, हेतोरस्याऽनिवारितः ॥४६९ ॥ भावाऽविच्छेद एव सद्रूपताऽवित्रुटनमेव अयमत्य ( ?मन्वय) सम्भव: प्राक्प्रतिपादितः अन्वयोऽनुवृत्तिः गीयते यतो यस्मात्सकाशात्, स च - सं पुनरन्वयः अनन्तरभावित्वे - ऽव्यवहितोत्पादे, कुत इत्याह हेतो:-प्राच्यक्षणात्सकाशात् अस्य- कार्यस्य अनिवारितः - अप्रतिस्खलितः, हेतुस्वरूपानुकारिण एव कार्यस्योपलम्भात् । अपि च स क्षणिकोऽर्थः १ स्वनिवृत्तिस्वभावो २ अन्यजननस्वभावो ३ उभयस्वभावो वा स्यादिति तिस्रः कल्पनाः ॥४६९ ॥ ततः किमित्याह
स्वनिवृत्तिस्वभावत्वे क्षणस्य नापरोदयः ।
अन्यजन्मस्वभावत्वे स्वनिवृत्तिरसङ्गता ॥४७० ॥ स्वनिवृत्तिस्वभावत्वे क्षणस्य न-नैव अपरोदयः- उत्तरक्षणप्रसूतिरूपः स्यात्, तज्जनकस्य कस्यचिदभावात् । द्वितीयविकल्पमधिकृत्याह अन्यजन्मस्वभावत्वे प्राच्यक्षणस्योत्तरक्षणजननैकस्वभावत्वे स्वनिवृत्तिरात्मोपरमलक्षणा असङ्गता अघटमाना, तस्यान्यजननैकस्वभावादिति ॥४७० ॥
अथ तृतीयविकल्पस्याश्रयेण स्वमतमेव स्थापयन्नाह
इत्थं द्वयैकभावत्वे, न विरुद्धोऽन्वयो ऽपि हि । व्यावृत्त्याद्येकभावत्वयोगतो भाव्यतामिदम् ॥ ४७१ ॥ इत्थमुक्तप्रकारं द्वयं स्वनिवृत्त्यपरजननलक्षणं तस्यैकभावत्वे - विवक्षितैकवस्तुरूपतायां सत्यां न विरुद्धो - अयुक्तः, 'अन्वयोऽपि हि ' किं पुनः प्रकृतमेवद्वयमित्यपिशब्दार्थः । कुत इत्याह ' व्यावृत्तिः ' स्वगता आदिशब्दादपरजननं, तयोः 'एकभावत्वं' कथञ्चिदेकरूपत्वात् तद्योगतः भाव्यतां मीमांस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org