________________
योगबिन्दु सूत्र : ४७८-४७९-४८०-४८१
२९१
एवमेकान्तनित्योऽपि, हन्तात्मा नोपपद्यते ।
स्थिरस्वभाव एकान्ताद, यतो नित्योऽभिधीयते ॥४७८॥ एवं यथैकान्ततोऽनित्यः तथैकान्तनित्योऽपि हन्तात्मा नोपपद्यते । कुत इत्याह 'स्थिरस्वभाव:-एकस्वरूपः, एकान्तात्-सर्वथा यतो नित्योऽभिधीयते भावः ॥४७८॥ यदि नामैवं, ततः किमित्याह
तदयं कर्तृभावः स्याद्, भोक्तृभावोऽथवा भवेत् ।
उभयानुभयभावो वा, सर्वथापि न युज्यते ॥४७९॥ तत् तस्माद् अयं-नित्य आत्मा, कर्तृभाव: 'शुभकर्मकारकस्वभाव: स्याद् भोक्तृभावः-प्राक्कृतकर्मवेदकस्वभावः अथवा भवेत् । तथोभयं कर्तृभोक्तृलक्षणममुभयं च तत्प्रतिषेधरूपं भावो यस्य स तथा 'वा' इति तृतीयचतुर्थविकल्पसूचकः । ततः किमित्याह सर्वथापि-सर्वैरपि-विकल्पैः न युज्यते इति ॥४७९॥ इदमेव भावयति
एकान्तकर्तृभावत्वे, कथं भोक्तृत्वसम्भवः । ___भोक्तृभावनियोगेऽपि, कर्तृत्वं ननु दुःस्थितम् ॥४८०॥
एकान्तकर्तृभावत्वे-कर्मकारकस्वभावत्वे, कथं भोक्तृत्वसम्भवोभोक्तृभावः ? कर्तृत्वभोक्तृत्वयोर्विरोधसम्भवात् । भोक्तृभावनियोगेऽपिभोक्तृत्वनियमलक्षणे किं पुनः कर्तृत्वैकरूपत्वे भोक्तृत्वाभाव इत्यपिशब्दार्थः, कर्तृत्वं ननु-निश्चितं दुःस्थितं-दुष्प्रतिष्ठितमिति ॥४८० ॥ तर्हि भोक्तृत्वकस्वभावः कर्तृत्वैकरूपो वा स्यादित्याशंक्याऽऽह
न चाकृतस्य भोगोऽस्ति, कृतं चाऽभोगमित्यपि ।
उभयानुभयभावत्वे, विरोधासम्भवौ ध्रुवौ ॥४८१॥ न च-न पुनः अकृतस्य-कर्मणो भोगोऽस्ति । तथा कृतं च कर्म अभोगं भोगविकलमित्यपि नास्ति । अथ तृतीयचतुर्थो विकल्पावाश्रित्याह'उभयानुभयभावत्वे विरोधासम्भवौ ध्रुवौ'-उभयस्वभावत्वे ध्रुवो विरोधो १. शुभाशुभकर्म-A; २. ततोऽपि किमि-A:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org