Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 315
________________ योगबिन्दु सूत्र : ४६८-४६९-४७०-४७१ भावतः-सम्भवात् इदमुक्तं भवति - यदि सर्वथा क्षणिक एवायमात्मा, तदा तस्य द्वितीयक्षणे सर्वथोच्छेदेन हेतोरभावान्नोत्तरक्षणप्रसूति: प्रसज्यते । अथोत्तरक्षणप्रसूतिरभ्युपगम्यते, तदा पूर्वक्षणस्यैव कथञ्चिदभावीभूतस्योत्तरकार्यतया भवनेनान्वयः समाढौकत इति ॥४६८ ॥ एतदेव भावयति २८८ भावाऽविच्छेद एवायमन्वयो गीयते यतः । स चानन्तरभावित्वे, हेतोरस्याऽनिवारितः ॥४६९ ॥ भावाऽविच्छेद एव सद्रूपताऽवित्रुटनमेव अयमत्य ( ?मन्वय) सम्भव: प्राक्प्रतिपादितः अन्वयोऽनुवृत्तिः गीयते यतो यस्मात्सकाशात्, स च - सं पुनरन्वयः अनन्तरभावित्वे - ऽव्यवहितोत्पादे, कुत इत्याह हेतो:-प्राच्यक्षणात्सकाशात् अस्य- कार्यस्य अनिवारितः - अप्रतिस्खलितः, हेतुस्वरूपानुकारिण एव कार्यस्योपलम्भात् । अपि च स क्षणिकोऽर्थः १ स्वनिवृत्तिस्वभावो २ अन्यजननस्वभावो ३ उभयस्वभावो वा स्यादिति तिस्रः कल्पनाः ॥४६९ ॥ ततः किमित्याह स्वनिवृत्तिस्वभावत्वे क्षणस्य नापरोदयः । अन्यजन्मस्वभावत्वे स्वनिवृत्तिरसङ्गता ॥४७० ॥ स्वनिवृत्तिस्वभावत्वे क्षणस्य न-नैव अपरोदयः- उत्तरक्षणप्रसूतिरूपः स्यात्, तज्जनकस्य कस्यचिदभावात् । द्वितीयविकल्पमधिकृत्याह अन्यजन्मस्वभावत्वे प्राच्यक्षणस्योत्तरक्षणजननैकस्वभावत्वे स्वनिवृत्तिरात्मोपरमलक्षणा असङ्गता अघटमाना, तस्यान्यजननैकस्वभावादिति ॥४७० ॥ अथ तृतीयविकल्पस्याश्रयेण स्वमतमेव स्थापयन्नाह इत्थं द्वयैकभावत्वे, न विरुद्धोऽन्वयो ऽपि हि । व्यावृत्त्याद्येकभावत्वयोगतो भाव्यतामिदम् ॥ ४७१ ॥ इत्थमुक्तप्रकारं द्वयं स्वनिवृत्त्यपरजननलक्षणं तस्यैकभावत्वे - विवक्षितैकवस्तुरूपतायां सत्यां न विरुद्धो - अयुक्तः, 'अन्वयोऽपि हि ' किं पुनः प्रकृतमेवद्वयमित्यपिशब्दार्थः । कुत इत्याह ' व्यावृत्तिः ' स्वगता आदिशब्दादपरजननं, तयोः 'एकभावत्वं' कथञ्चिदेकरूपत्वात् तद्योगतः भाव्यतां मीमांस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346