Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 314
________________ २८७ योगबिन्दु सूत्र : ४६५-४६६-४६७-४६८ २८७ अथ ज्ञानवादिमतमाशंक्य परिहरनाह कुमारी सुतजन्मादिस्वप्नबुद्धिसमोदिता । भ्रान्तिः सर्वेयमिति चेन्ननु सा धर्म एव हि ॥४६६॥ 'कुमार्या:- अद्याप्यप्राप्तविवाहाया या सुतजन्मादिस्वप्नबुद्धि: तत्समोदिता-प्रतिपादिता भ्रान्तिः सर्वेयं प्रतिपाद्यप्रतिपादकादिरूपा' इत्येवम् चेद्यदि ब्रूषे हे ज्ञानवादिन् ? तथा चैतदार्षम्-" यथा कुमारी स्वप्नान्तरेऽस्मिञ्जातं च पुत्रं विगतं च पश्येत् । जाते च हृष्टा, विगते च खिन्ना, तथोपमान् जानत सर्वधर्मान् ॥१॥" अत्र प्रतिविधीयते-ननु इति परपक्षाक्षमायां साकुमारीसुतजन्मादिबुद्धिः धर्म एव हि-अवस्थाविशेष एव, नापरं किञ्चित् ॥४६६ ॥ कुत इत्याह कुमार्या भाव एवेह, यदेतदुपपद्यते । .. वन्ध्यापुत्रस्य लोकेऽस्मिन्न जातु स्वप्नदर्शनम् ॥४६७॥ कुमार्या:-कुमारीरूपायाः स्त्रिया: भाव एव-सत्तायामेव इह-जगति यद्यस्मात् एतत्प्रकृतं-स्वप्नदर्शनं, उपपद्यते । अत्रैव व्यतिरेकेण प्रतिवस्तूपमामाह वन्ध्यापुत्रस्य-प्रतीतरूपस्य लोकेऽस्मिन् न-नैव, जातु-कदाचित्, स्वप्नदर्शनम्, तथा कुमारीसमः कश्चिदवस्थित एवात्माभ्युपगन्तव्य: यस्येमे तत्त्वचिन्तादयो विशेषाः 'सुतजन्मादिस्वप्नबुद्धिसमा भवद्भिः कल्प्यन्त इति ॥४६७॥ अथ द्वितीयपक्षमधिकृत्याह क्षणिकत्वं तु नैवास्य, क्षणादूर्ध्वं विनाशतः । अन्यस्याभावतोऽसिद्धेरन्यथाऽन्वयभावतः ॥४६८॥ क्षणिकत्वं तु एकक्षणस्थायित्वं पुन: नैवास्यात्मनो युज्यते । कुत इत्याह क्षणात्-स्वरूपलाभसमयलक्षणात् ऊर्ध्व-उपरि विनाशत:-सर्वथोपरमात् अन्यस्यअनन्तरलक्षणस्य अभावतः-अभावाद्वन्ध्यासुतादिप्रख्यात् असिद्धेः अनुत्पत्तेः, अन्यथा यदि भावादेव भावसिद्धिरभ्युपगम्यते तदा अन्वयभावत: अन्वयसम्भवात्पूर्वक्षणस्यैव कथञ्चिदभावीभूतस्यान्वयानुवृत्तिः कार्यतया भवनादित्यर्थः तस्य १. पुनर्जन्मादि-A; २ भावनादि-A: भावनमि- BC Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346