Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 310
________________ योगबिन्दु सूत्र : ४५१-४५२-४५३-४५४ २८३ इति समुच्चये 'विकारो' रक्तपीतादिप्रतिबिम्बरूप: स्यात् । विपक्षे बाधामाह न-नैव अन्यथा-द्वयोरपि तथापरिणामाभावे असौ-विकारः स्यात् । दृष्टान्तमाह 'अन्धाश्मन इव'-अन्धपाषाणस्येव स्फुट-प्रकटमेव ॥४५१॥ एवं च सति किमित्याह तथानामैव सिद्धव, विक्रियाप्यस्य तत्त्वतः । चैतन्यविक्रियाप्येवमस्तु ज्ञानं च साऽऽत्मनः ॥४५२॥ तथानामैव दृष्टान्तबलेन प्रकृतिपुरुषयोः सिद्धे सति सिद्धैव विक्रियापि विकारो, यो भवद्भिः कण्ठगतप्राणैरपि न प्रतिपद्यते, किं पुनस्तथानामेत्यपिशब्दार्थः । अस्यात्मनः तत्त्वतोऽनुपचारेण चैतन्यविक्रियाप्येवमात्मविक्रियायां अस्तुभवतु ज्ञानं चार्थसंवेदनरूपं सा-चैतन्यविक्रिया अस्याऽऽत्मनः ॥४५२॥ अथ परमतमेवाशंक्य परिहरनाह निमित्ताभावतो नो चेनिमित्तमखिलं जगत् । नान्तःकरणमिति चेत्, क्षीणदोषस्य तेन किम् ? ॥४५३॥ निमित्ताभावतः सहकारिकारणविरहाद् नो-नैव चेद्यदि ब्रूषेमुक्तावस्थायामर्थविज्ञानं इति, अत्रोत्तरं-निमित्तं-हेतु: अखिलं-सकलं जगत्चैतन्यविक्रियायाः, अथ न-नैव अन्त:करणं हेतुस्तत्र इति एतावत् चेत् अत्राह क्षीणदोषस्य 'मुक्तावस्थायां तेन अन्त:करणेन किं ? न किंचिदित्यर्थः ॥४५३॥ एतदेव समर्थयते- . निरावरणमेतद्यद, विश्वमाश्रित्य विक्रियाम् । ___न याति यदि तत्त्वेन, न निरावरणं भवेत् ॥४५४॥ निरावरणमेतच्चैतन्यं यद्यस्मात्ततो विश्व-जगत्, आश्रित्यापेक्ष्य विक्रियां न याति यदि, तदा तत्त्वेन न-नैव निरावरणं भवेत्, आवरणस्यैव चैतन्यविक्रियाया बाधकत्वात् ॥४५४॥ पुनरपि पराभिप्रायमाशंक्य परिहरनाह १. तत्-C.; २. मुक्त्यवस्थायां-A.B.C.; Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346