Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 302
________________ योगबिन्दु सूत्र : ४२७-४२८-४२९-४३० २७५ केवलं-केवलज्ञानम् । तथा च ते पठन्ति-"अतीन्द्रियाणामर्थानां, साक्षाद्रष्टा न विद्यते । वचनेन हि नित्येन, यः पश्यति स पश्यति" ॥१॥ अन्ये तु-सांख्या: मुक्त्यवस्थायां केवलं नेच्छन्ति । कुत इत्याह सहकारिणोमनोलक्षणस्य प्रकृतेर्विघटनेन वियोगतो-विसंयोगात् । एतच्च मतद्वयं यथा फल्गु तथोपरिष्टाद्वक्ष्यते इति ॥४२७॥ . चैतन्यमात्मनो रूपं, न च तज्ज्ञानतः पृथक् । युक्तितो युज्यतेऽन्ये तु, ततः केवलमाश्रिताः ॥४२८॥ चैतन्यमात्मनो रूपं "चैतन्यं पुरुषस्य" इति वचनप्रामाण्यात्, न च-न पुनः तच्चैतन्यम् ज्ञानतो-ज्ञानात् पृथग्भिन्नम् युक्तितः-शुद्धहेतुप्रयोगात् युज्यते, किं तु ज्ञानमेव, अन्ये तु-जैनाः पुनः ततो-ज्ञानचैतन्ययोरभेदाद् घातिकर्मक्षयानन्तरं केवलं-परिपूर्णज्ञानरूपं संसारावस्थायां मुक्त्यवस्थायां च, आश्रिताः-प्रतिपन्नाः ॥४२८॥ अर्थतत्फलमाह- . अस्मादतीन्द्रियज्ञप्तिस्ततः सद्देशनागमः । नान्यथा छिन्नमूलत्वादेतदन्यत्र दर्शितम् ॥४२९॥ अस्मात्-केवलात् अतीन्द्रियज्ञप्ति:-स्वर्गापवर्गादीनामतीन्द्रियविषयाभिगमभावज्ञानं सम्पद्यते । ततो-ऽनन्तरं सती-कषच्छेदतापशुद्धा या देशना वस्तुप्रज्ञापना मातृकापदत्रयोद्घाटरूपा, ततोऽप्यागमोऽङ्गानङ्गादिभेदः प्रवर्तते, अथवा सद्देशनैवागम इति समास: । अत्रैव विपक्षे बाधामाह न-नैव अन्यथा केवलिदेशनामन्तरेणागमः, कुत इत्याह 'छिन्नमूलत्वात्'-छिन्नं त्रुटितं मूलमागमार्थसाक्षाद्दर्शिपुरुषलक्षणं यस्य स तथा तद्भावस्तत्त्वं तस्मात्, यथा हि स्वातन्त्र्येणातिद्राधीयस्यापि जात्यन्धपरंपरया हस्त्यादिसंस्थानलक्षणोऽर्थः प्रज्ञाप्यमानो न सत्यरूपतां प्रतिपद्यते, तथा सर्वज्ञप्रणेतृक आगमोप्यवाग्दर्शिपरम्पराप्रज्ञापनापन्नो योजनीय इति । एतदागमान्यथानुपपन्नत्वं अन्यत्रशास्त्रवार्तासमुच्चयादौ विस्तरेण दर्शितमिति ॥४२९॥ तथा चेहात्मनों ज्ञत्वे, संविदस्योपपद्यते । एषा चानुभवात्सिद्धा, प्रतिप्राण्येव देहिनाम् ॥४३०॥ 'तथा च' इति पूर्वोक्तार्थभावनार्थः । इह लोके आत्मनो ज्ञत्वे-चिद्रूपत्वे Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346