Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 307
________________ २८० योगबिन्दु सूत्र : ४४२-४४३-४४४-४४५-४४६ एवमायुक्तसन्नीत्या, हेयाद्यपि च तत्त्वतः । तत्त्वस्यासर्वदर्शी न वेत्त्यावरणभावतः ॥४४३॥ एवमादि-मतिशालिसुभाषितं असारं इत्यनुवर्तते । कथमित्याह उक्तसन्नीत्या-"ज्ञो ज्ञेये कथमज्ञः स्यात्" (श्लोक. ४३२) इत्यादिरूपया। अत्रैव हेत्वन्तरमाह हेयाद्यपि च'-हेयमुपादेयं च वस्तु तत्त्वत: 'निरवद्याचारवृत्त्या तत्त्वस्य जीवादिलक्षणस्य 'असर्वदर्शी'-सर्वं तत्त्वमद्रष्टुंशीलः न वेत्तिबुध्यते । कुत इत्याह 'आवरणभावत:'-ज्ञानावारककर्मभावात् । इह हि यो यदपेक्ष: स्वरूपं लभते स तत्परिज्ञान एव ज्ञातो भवति, यथा ह्रस्वो दी? वा, हेयपदार्थराशिस्वरूपापेक्षश्च सर्वोपादेयार्थराशिः, तस्माद्धेयपरिज्ञानाधीनविज्ञानोऽसाविति न हेयस्यापरिज्ञाने पुष्कलमुपादेयवेदनमुपपद्यत इति सर्वहेयोपादेयवस्तु परिज्ञाता कश्चिज्ज्ञानिविशेषोऽभ्युपगन्तुं युक्त इति ॥४४३॥ इत्थं मीमांसकमतमपाकृत्य सांख्यमतनिराकरणायाह बुद्धयध्यवसितं यस्मादर्थं चेतयते पुमान् । इतीष्टं चेतना चेह, संवित्सिद्धा जगत्त्रये ॥४४४॥ बुद्ध्यध्यवसितं-बुद्धिविषयीभूतं यस्मादर्थं शब्दादिकं चेतयते-परिच्छिनत्ति पुमान्-पुरुषः इत्येवं इष्टं सांख्येन चेतना चेह संविद्-अर्थसंवित्संज्ञा सिद्धाप्रतिष्ठिता जगत्त्रये ॥४४४॥ चैतन्यं च निजं रूपं, पुरुषस्योदितं यतः । तत आवरणाभावे नैतत्स्वफलकृत् कुतः ॥४४५॥ चैतन्यं च निजं-स्वकीयं रूपं पुरुषस्योदितमुक्तं यतः, तत आवरणाभावेप्रकृतिविरहलक्षणे स्वयमेव मुक्त्यवस्थायां प्रतिपने न-नैव एतच्चैतन्यं स्वफलकृदर्थपरिच्छेदलक्षण स्वीयकार्यकारि कुत:-कस्मात्कारणात् ॥४४५ ॥ न निमित्तवियोगेन, तद्धयावरणसङ्गतम् । न च तत्तत्स्वभावत्वात्, संवेदनमिदं यतः ॥४४६॥ अथ पर:-न नैवार्थविषयं विज्ञानं मुक्तौ निमित्तवियोगेनाऽन्तःकरणरूप १. निरवकरवृत्त्या-AB.C.; २. पविज्ञाता-A; ३. स्वकार्यकारि-A; Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346