________________
२८० योगबिन्दु सूत्र : ४४२-४४३-४४४-४४५-४४६
एवमायुक्तसन्नीत्या, हेयाद्यपि च तत्त्वतः ।
तत्त्वस्यासर्वदर्शी न वेत्त्यावरणभावतः ॥४४३॥ एवमादि-मतिशालिसुभाषितं असारं इत्यनुवर्तते । कथमित्याह उक्तसन्नीत्या-"ज्ञो ज्ञेये कथमज्ञः स्यात्" (श्लोक. ४३२) इत्यादिरूपया। अत्रैव हेत्वन्तरमाह हेयाद्यपि च'-हेयमुपादेयं च वस्तु तत्त्वत: 'निरवद्याचारवृत्त्या तत्त्वस्य जीवादिलक्षणस्य 'असर्वदर्शी'-सर्वं तत्त्वमद्रष्टुंशीलः न वेत्तिबुध्यते । कुत इत्याह 'आवरणभावत:'-ज्ञानावारककर्मभावात् ।
इह हि यो यदपेक्ष: स्वरूपं लभते स तत्परिज्ञान एव ज्ञातो भवति, यथा ह्रस्वो दी? वा, हेयपदार्थराशिस्वरूपापेक्षश्च सर्वोपादेयार्थराशिः, तस्माद्धेयपरिज्ञानाधीनविज्ञानोऽसाविति न हेयस्यापरिज्ञाने पुष्कलमुपादेयवेदनमुपपद्यत इति सर्वहेयोपादेयवस्तु परिज्ञाता कश्चिज्ज्ञानिविशेषोऽभ्युपगन्तुं युक्त इति ॥४४३॥ इत्थं मीमांसकमतमपाकृत्य सांख्यमतनिराकरणायाह
बुद्धयध्यवसितं यस्मादर्थं चेतयते पुमान् ।
इतीष्टं चेतना चेह, संवित्सिद्धा जगत्त्रये ॥४४४॥ बुद्ध्यध्यवसितं-बुद्धिविषयीभूतं यस्मादर्थं शब्दादिकं चेतयते-परिच्छिनत्ति पुमान्-पुरुषः इत्येवं इष्टं सांख्येन चेतना चेह संविद्-अर्थसंवित्संज्ञा सिद्धाप्रतिष्ठिता जगत्त्रये ॥४४४॥
चैतन्यं च निजं रूपं, पुरुषस्योदितं यतः । तत आवरणाभावे नैतत्स्वफलकृत् कुतः ॥४४५॥
चैतन्यं च निजं-स्वकीयं रूपं पुरुषस्योदितमुक्तं यतः, तत आवरणाभावेप्रकृतिविरहलक्षणे स्वयमेव मुक्त्यवस्थायां प्रतिपने न-नैव एतच्चैतन्यं स्वफलकृदर्थपरिच्छेदलक्षण स्वीयकार्यकारि कुत:-कस्मात्कारणात् ॥४४५ ॥
न निमित्तवियोगेन, तद्धयावरणसङ्गतम् ।
न च तत्तत्स्वभावत्वात्, संवेदनमिदं यतः ॥४४६॥ अथ पर:-न नैवार्थविषयं विज्ञानं मुक्तौ निमित्तवियोगेनाऽन्तःकरणरूप
१. निरवकरवृत्त्या-AB.C.; २. पविज्ञाता-A; ३. स्वकार्यकारि-A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org