________________
योगबिन्दु सूत्र : ४३९-४४०-४४१-४४२
२७९ वेदोक्तार्थप्रतीतिनिमित्तं कैरित्याह अज्ञोपदेशकरणे-अज्ञप्रज्ञापकोपदिष्टार्थकरणे विप्रलम्भनशङ्किभिः-व्यभिचारभीरुभिर्वेदाध्यायिभि:-पुम्भिरिति ॥४३९ ॥
तस्मादनुष्ठानगतं, ज्ञानमस्य विचार्यताम् ।
कीटसंख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते ॥४४०॥ तस्माद्-अज्ञोपदेशकरणे विप्रलम्भनशङ्कादोषाद्धेतोः अनुष्ठानगतंअनुष्ठीयमानाग्निहोत्रादिगोचरं ज्ञानं, अस्य सर्वज्ञस्य विचार्यताम् । विपर्यये दोषमाह 'कीटसंख्यापरिज्ञानं'-समुद्रादिगतमत्स्यकच्छपादिप्राणिपरिगणनलक्षणं, तस्य-सर्वज्ञस्य नो-अस्माकं क्वोपयुज्यते ? तत्परिज्ञानस्यास्माकमत्यन्तानुपयोगेन निष्फलत्वात् ॥४४० ॥ तस्मात्
हेयोपादेयतत्त्वस्य, साभ्युपायस्य वेदकः ।।
यः प्रमाणमसाविष्टो, न तु सर्वस्य वेदकः ॥४४१॥ हेयोपादेयतत्त्वस्य-हातुमुपादातुं वा योग्यभावरूपस्य साभ्युपायस्यनिजोपाययुतस्य वेदको-ज्ञाता यः-पुमान्, प्रमाणं-प्रवृत्तिनिवृत्तिहेतुः असौसर्वज्ञः इष्टो मतः । व्यवच्छेद्यमाह न तु-न पुनः, सर्वस्य-अनुपयोगिनोऽपि वस्तुनः वेदक इति ॥४४१॥
नवनुपयोगिनोऽनिष्टदूरासन्नादिभेदस्य वस्तुनो दर्शनेन परैः सर्वज्ञः प्रतिपन इति कथमिष्टार्थदर्शनेन सर्वज्ञः स्यादित्याशंक्याह
दूरं पश्यतु वा, मा वा, तत्त्वमिष्टं तु पश्यतु ।
प्रमाणं दूरदर्शी चेदेत गृधानुपास्महे ॥४४२॥ 'दूरं'-व्यवहितं पश्यतु वा' 'मा वा पश्यतु' तत्त्वमिष्टमर्थं तु-धर्मादिकं पश्यतु, प्रमाणं सर्वज्ञो दूरदर्शी चेद्-यदि मन्यध्वे, 'एत-आगच्छत यूयं येन समवायमाधाय-गृध्रान् पक्षिविशेषान् उपास्महे-'वरिवत्स्यामः । "ते हि किल नभसि प्रसारितपक्षाः सञ्चरन्त आ योजनशतादामिषं पश्यन्तीति" ॥४४२॥
अत्र प्रतिविधत्ते
-:-:-
-
१. एतागच्छत-AB.C.; २. वरिवस्यामः(?) -AB.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org