________________
२७८
योगबिन्दु सूत्र : ४३५-४३६-४३७-४३८-४३९ सामान्यवद्विशेषाणां, स्वभावो ज्ञेयभावतः ।
ज्ञायते स च साक्षात्त्वाद् विना विज्ञायते कथम् ॥४३६॥ सामान्यवत्-महा सत्त्वादिसामान्यमिव विशेषाणामाम्रनिम्बकदम्बादिरूपाणां स्वभावः स्वलक्षणरूपः ज्ञेयभावतो-ज्ञेयत्वरूपात् ज्ञायते केनचित्पुरुषेण । स च-स्वभावः साक्षात्त्वात्-साक्षाद्भावलक्षणात् विनाऽन्तरेण 'विज्ञायते कथं' साक्षाद्भावगम्यत्वेन विशेषाणां सर्वैरस्याभ्युपगमात् ॥४३६॥ अथोपसंहरनाह
अतोऽयं ज्ञस्वभावत्वात्, सर्वज्ञः स्यात्रियोगतः ।
नान्यथा ज्ञत्वमस्येति, सूक्ष्मबुद्धया निरूप्यताम् ॥४३७॥ अतो-विशेषाणां साक्षाद्भावगम्यत्वाद्धेतो: 'अयं'-जीव: ज्ञस्वभावत्वात्ज्ञानरूपत्वात् सर्वज्ञः-सर्वार्थज्ञाता स्यानियोगतः-नियमेन । विपक्षे बाधामाह न-नैव अन्यथा-सर्वज्ञत्वाभावे ज्ञत्वमस्य जीवस्य इति-एतत् सूक्ष्मबुद्ध्या निरूप्यताम् । यदि हि प्रतिबन्धकाभावेऽपि सर्वज्ञोऽसावात्मा स्यात्( ? न स्यात्) तदा ज्ञस्वभाव एव न स्यात्, आकाशाद्यमूर्तभाववत् ॥४३७ ॥ इत्थं सर्वज्ञत्वे साधिते यत्सिद्धं तदाह
एवं च तत्त्वतोऽसारं, यदुक्तं मतिशालिना ।
इह व्यतिकरे किञ्चिच्चारुबुद्ध्या सुभाषितम् ॥४३८॥ एवं चास्मिंश्च सर्वज्ञलक्षणेऽर्थे सिद्धे सति तत्त्वत:-परमार्थनीत्या असारं फल्गु यदुक्तं मतिशालिना कुमारिलेन इह व्यतिकरे-सर्वज्ञ'प्रतिषेधगोचरे किञ्चित्-किमपि चारुबुद्ध्या-निपुणाभोगरूपया कृत्वा सुभाषितम् । यदस्या अनादरणीयत्वेऽपि मतिशालिनेत्याद्यभिहितं तत्तथाविधजनानुवृत्तिप्रधानतयेति ॥४३८॥ सुभाषितमेव दर्शयति
'ज्ञानवान्मृग्यते कश्चित्, तदुक्तप्रतिपत्तये ।
अज्ञोपदेशकरणे, विप्रलम्भनशङ्किभिः ॥४३९॥ ज्ञानवान्-विचारक: मृग्यते कश्चिनिपुणाध्यापकादिः । तदुक्तप्रतिपत्तये १. सत्तादिसा-A; २. प्रतिषिद्धगोचरे-A; ३. श्लोकचतुष्कं प्रमाणवार्तिके १/३२-३३३४-३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org