________________
२७७
योगबिन्दु सूत्र : ४३३-४३४-४३५ न-नैव देशविप्रकर्षः स्वर्गपातालादिरूपः अस्य-केवलस्य युज्यते प्रतिबन्धकः ।तथानुभवसिद्धत्वाद्-यथा देशविप्रकर्षो मेरुमकराकरादिविषयगतो ज्ञानविशेषप्रवृत्तौ प्रतिबन्धको न भवति, तथानुभवस्य स्वसंवेदनरूपस्य सिद्धत्वात् । 'अग्नेरिव' इति वैधर्म्यदृष्टान्तः सुनीतित:-सन्यायात् । यथाग्नेर्देशविप्रकर्षः प्रतिबन्धकः, न तथा केवलस्येत्यर्थः ॥४३३ ।। तर्हि कथमनयोदृष्टान्तदाान्तिकभाव इत्याशंक्याह
अंशतस्त्वेष दृष्टान्तो, धर्ममात्रत्वदर्शकः ।
अदाह्याऽदहनाद्येवमत एव न बाधकम् ॥४३४॥ अंशतस्तु-देशादेव एषोऽग्नेर्दाहकत्वलक्षणो दृष्टान्तः कीदृश इत्याह 'धर्ममात्रत्वदर्शक:'-यथाऽग्नेर्दाहकत्वं स्वलक्षणं तथाऽऽत्मनो ज्ञानमिति ख्यापकः, न पुनः साधर्म्यात् । ततः किं सिद्धमित्याह 'अदाह्यस्य' वंशीमूलादेरदहनादि-अदहनं, आदिशब्दाद्विप्रकृष्टादहनं च । “एवं' धर्ममात्रत्वदर्शने सिद्धे सति अत एवांशतो दृष्टान्तात् 'न बाधकं' केवलस्य सर्वार्थविषयत्वख्यापनेन(ख्यापने) नैव क्षतिकारि ॥४३४॥ अथ प्रस्तुतं सर्वज्ञत्वमेव भावयति- . - सर्वत्र सर्वसामान्यज्ञानाज्ज्ञेयत्वसिद्धितः ।
तस्याखिलविशेषेषु, तदेतन्यायसङ्गतम् ॥४३५॥
'सर्वत्र' विषये दूरासन्नादिभेदभिन्ने 'सर्वसामान्यं' सर्वस्य साधारणं यत्सत्त्वादि तस्य ज्ञानाद्-अवबोधात् 'ज्ञेयत्वसिद्धितो' ज्ञेयभावसिद्धेः । एकस्मिन्नपि ह्युत्पादव्ययध्रौव्यरूपेण सत्त्वेन विशिष्टे घटादावर्थे 'परिज्ञाते सत्यन्यस्यापि तद्रूपतानतिक्रमात्परिज्ञानं कथञ्चिदुपपन्नमेवेति, किमित्याह 'तस्य' आत्मनः प्रतिबन्धकाभावे 'अखिलविशेषेषु'-अतीतानागतादिभेदेषु, 'तदेतत्' प्रकृतमेव केवलज्ञानं 'न्यायसङ्गतं' उपपत्रमिति यतो, “यो यः सामान्यज्ञानविषयोऽर्थः स स कस्यचित्प्रत्यक्षो भवति, यथा धूमादनुमीयमानोऽग्निः, सामान्यज्ञानविषयाश्च सर्वे भावाः तस्मात्ते कस्यचित्प्रत्यक्षा अपि स्युरिति" ॥
पुनरपीदमेव भावयति१. परिज्ञाने-B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org