________________
२७६
योगबिन्दु सूत्र : ४३१-४३२-४३३ . संविद् ज्ञानं अस्या-ऽऽत्मनः उपपद्यते । अन्यथा 'तत्स्वभावत्वे (अज्ञस्वभावत्वे) स्वव्यतिरिक्तज्ञानयोगेऽपि प्रदीपहस्तान्धवन्न किञ्चिदयमात्मा जानीयादिति । ___ न च वक्तव्यं “संविदेवास्य न भविष्यति" इत्याह एषा च-संविद् बाह्याभ्यन्तरार्थीविषयाणां पुन: अनुभवात्सिद्धा-संवेदनात्प्रतिष्ठिता कथमित्याह 'प्रतिप्राण्येव' सर्वजीवव्याप्त्यैव, देहिनां-जीवानामिति ॥४३०॥ . . . ज्ञस्वभावतामेवाधिकृत्याह
अग्नेरुष्णत्वकल्पं तज्ज्ञानमस्य व्यवस्थितम् ।
प्रतिबन्धकसामर्थ्यान्न स्वकार्ये प्रवर्तते ॥४३१॥ अग्नेरुष्णत्वकल्पं-स्वभावभूतमित्यर्थः तच्चैतन्यापरनामकं ज्ञानं केवलज्ञानलक्षणं अस्यात्मनः व्यवस्थितं-प्रतिष्ठितम् । यदि नामैवं, ततः किं न सर्वार्थविषयं सर्वदा प्रवर्तत इत्याह 'प्रतिबन्धकसामर्थ्यात्' ज्ञानावरणोदयलक्षणात्, न स्वकार्ये सर्वार्थपरिच्छेदरूपे प्रवर्तते ॥४३१॥ एतदेव व्यतिरेकत आह- ,
ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धके । .. ___ दाह्येऽग्निर्दाहको न स्यात्, कथमप्रतिबन्धकः ॥३२॥
ज्ञो-ज्ञाता स्वभावत एव सन्नात्मा ज्ञेये-जीवादावर्थे कथमज्ञः स्यानैवेत्यर्थः असति 'प्रतिबन्धके' ज्ञानावरणाद्युदये सयोगिकेवल्याद्यवस्थायाम् । एतदेव प्रतिवस्तूपमयाह 'दाह्ये'-दग्धुं शक्ये सति तृणादौ अग्निर्दाहक:-भस्मावस्थाकारी न स्यात् कथमप्रतिबन्धक:-अविद्यमानमन्त्रादिस्तम्भः ॥४३२॥
सर्वाण्येव हि ज्ञानानि सन्निहितविषयाण्येव प्रवर्तन्ते यथा चक्षुर्ज्ञानं, ज्ञानं च भवतां केवलं, तथा दृष्टान्ततयोपन्यस्तोऽग्निः सन्निहितदाह्यदाहक एवेति देशविप्रकर्षः एव प्रतिबन्धकः, कथमस्याऽस्मिन्सति सर्वार्थविषयत्वमित्याशङ्कय परिहरनाह- .
न देशविप्रकर्षोऽस्य, युज्यते प्रतिबन्धकः । तथानुभवसिद्धत्वादग्नेरिव सुनीतितः ॥४३३॥
१. अस्य स्वभावत्वे-B.C.; २. विषया पुन:-AB.C.: ३. दाह एवे-B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org