________________
योगबिन्दु सूत्र : ४२७-४२८-४२९-४३०
२७५ केवलं-केवलज्ञानम् । तथा च ते पठन्ति-"अतीन्द्रियाणामर्थानां, साक्षाद्रष्टा न विद्यते । वचनेन हि नित्येन, यः पश्यति स पश्यति" ॥१॥ अन्ये तु-सांख्या: मुक्त्यवस्थायां केवलं नेच्छन्ति । कुत इत्याह सहकारिणोमनोलक्षणस्य प्रकृतेर्विघटनेन वियोगतो-विसंयोगात् । एतच्च मतद्वयं यथा फल्गु तथोपरिष्टाद्वक्ष्यते इति ॥४२७॥
. चैतन्यमात्मनो रूपं, न च तज्ज्ञानतः पृथक् ।
युक्तितो युज्यतेऽन्ये तु, ततः केवलमाश्रिताः ॥४२८॥
चैतन्यमात्मनो रूपं "चैतन्यं पुरुषस्य" इति वचनप्रामाण्यात्, न च-न पुनः तच्चैतन्यम् ज्ञानतो-ज्ञानात् पृथग्भिन्नम् युक्तितः-शुद्धहेतुप्रयोगात् युज्यते, किं तु ज्ञानमेव, अन्ये तु-जैनाः पुनः ततो-ज्ञानचैतन्ययोरभेदाद् घातिकर्मक्षयानन्तरं केवलं-परिपूर्णज्ञानरूपं संसारावस्थायां मुक्त्यवस्थायां च, आश्रिताः-प्रतिपन्नाः ॥४२८॥ अर्थतत्फलमाह- .
अस्मादतीन्द्रियज्ञप्तिस्ततः सद्देशनागमः ।
नान्यथा छिन्नमूलत्वादेतदन्यत्र दर्शितम् ॥४२९॥
अस्मात्-केवलात् अतीन्द्रियज्ञप्ति:-स्वर्गापवर्गादीनामतीन्द्रियविषयाभिगमभावज्ञानं सम्पद्यते । ततो-ऽनन्तरं सती-कषच्छेदतापशुद्धा या देशना वस्तुप्रज्ञापना मातृकापदत्रयोद्घाटरूपा, ततोऽप्यागमोऽङ्गानङ्गादिभेदः प्रवर्तते, अथवा सद्देशनैवागम इति समास: । अत्रैव विपक्षे बाधामाह न-नैव अन्यथा केवलिदेशनामन्तरेणागमः, कुत इत्याह 'छिन्नमूलत्वात्'-छिन्नं त्रुटितं मूलमागमार्थसाक्षाद्दर्शिपुरुषलक्षणं यस्य स तथा तद्भावस्तत्त्वं तस्मात्, यथा हि स्वातन्त्र्येणातिद्राधीयस्यापि जात्यन्धपरंपरया हस्त्यादिसंस्थानलक्षणोऽर्थः प्रज्ञाप्यमानो न सत्यरूपतां प्रतिपद्यते, तथा सर्वज्ञप्रणेतृक आगमोप्यवाग्दर्शिपरम्पराप्रज्ञापनापन्नो योजनीय इति । एतदागमान्यथानुपपन्नत्वं अन्यत्रशास्त्रवार्तासमुच्चयादौ विस्तरेण दर्शितमिति ॥४२९॥
तथा चेहात्मनों ज्ञत्वे, संविदस्योपपद्यते ।
एषा चानुभवात्सिद्धा, प्रतिप्राण्येव देहिनाम् ॥४३०॥ 'तथा च' इति पूर्वोक्तार्थभावनार्थः । इह लोके आत्मनो ज्ञत्वे-चिद्रूपत्वे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org