________________
२७४
योगबिन्दु सूत्र : ४२४-४२५-४२६-४२७ यथोदितायाः सामग्रयास्तत्स्वाभाव्यनियोगतः ।
योग्यतापगमोऽप्येवं, सम्यग्ज्ञेयो महात्मभिः ॥४२४॥ यथोदिताया:-अध्यात्मादिरूपायाः सामग्रयाः तत्स्वाभाव्यनियोगतस्तथाभव्यत्वव्यापारात् किमित्याह योग्यतापगमोऽपि-किं पुनर्योग्यतानिमित्तकर्मापगम इत्यपिशब्दार्थः ‘एवं' उक्तरूपयोगाभ्यासेन सम्यक्-सूक्ष्माभोगेन ज्ञेयो महात्मभिरिति । यथाध्यात्मादियोगसहायात्तथाभव्यत्वात्तत्तद्बन्धापगमः सम्पद्यते, तथा तद्बन्धयोग्यतापगमोऽपीति ॥४२४॥ एवं योगविशेषसिद्धौ यद्भवति तदाह
साक्षादतीन्द्रियानर्थान्, दृष्ट्वा केवलचक्षुषा । - अधिकारवशात् कश्चिद्, देशनायां प्रवर्तते ॥४२५॥
साक्षाद्-ऽन्यानपेक्षितया अतीन्द्रियानिन्द्रियविषयातीतान् अर्थान्-जीवादीन् दृष्ट्वा-विलोक्य केवलचक्षुषा-केवलज्ञानदर्शनदृष्ट्या अधिकारवशाद्योग्यताविशेषलक्षणात् कश्चित्तीर्थकरपदप्रायोग्यो जीव:, देशनायां-स्वतन्त्रधर्मकथारूपायां प्रवर्तते ॥४२५ ॥
प्रकृष्टपुण्यसामर्थ्यात्, प्रातिहार्यसमन्वितः ।
अवन्ध्यदेशनः श्रीमान्, यथाभव्यं नियोगतः ॥४२६॥ प्रकृष्टपुण्यसामर्थ्यात्-तीर्थंकरवात्सल्यादि हेतुभिरुपात्तोत्तमसुकृतानुभावात् प्रातिहार्यसमन्वितो-ऽशोकवृक्षादिदेवकृतपूजोपचारसहित: अवन्ध्यदेशन:-सम्यक्त्वादिनिर्वाणकारणफलधर्मकथी श्रीमान्-सर्वातिशायिज्ञानलक्ष्मीपात्रम् । यथाभव्यं-योग्यजीवानतिक्रमेण नियोगतः-प्रथमपश्चिमदिनप्रहराराधनारूपात् ॥४२६॥ अत्रैव मतान्तराण्याह
केचित्तु योगिनोऽप्येतदित्थं नेच्छन्ति केवलम् ।
अन्ये तु मुक्त्यवस्थायां, सहकारिवियोगतः ॥४२७॥ केचित्तु-जैमिनीयाः योगिनोऽप्यध्यात्मादियोगभेदवतो जीवस्य किं पुनस्तदन्यरूपस्येत्यपिशब्दार्थः एतत्प्रागुद्दिष्टं, इत्थमतीन्द्रियार्थविषयतया नेच्छन्ति
१. हेतूपात्तोत्तम-A: २. ण्याह केचिदित्यादि-B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org