________________
२७३
योगबिन्दु सूत्र : ४२१-४२२-४२३ असम्प्रज्ञात:-सम्प्रज्ञातविलक्षण: एषोप्येष एव योगः कैवल्यलक्षणावस्थान्तरप्राप्तः समाधिर्गीयते-प्रज्ञाप्यते परैस्तीर्थान्तरीयैः । कुत इत्याह निरुद्धमशेषंसमस्तं वृत्त्यादि-वृत्तिरुक्तलक्षणा आदिशब्दात्तद्बीजं च यत्र तत्तथा तच्च तत्स्वरूपं च-योगस्वरूपं तेनानुवेधात्-ऐक्यानयनादात्मनः । यत्र समाधौ वृत्त्याद्यशेष निरुध्यत आत्मा च लब्धतत्समाधिस्वरूपानुवेधो भवति सोऽसम्प्रज्ञातो मानसविज्ञानवैकल्यादुच्यत इति ।
इह द्विधाऽसम्प्रज्ञातः समाधिः, (१) सयोगिकेवलिकालभावी (२) अयोगिकेवलिकालभावी च । तत्राद्यो मनोवृत्तीनां विकल्पज्ञानरूपाणां तद्बीजस्य ज्ञानावरणाद्युदयरूपस्य निरोधादुत्पद्यते, द्वितीयस्तु सकलाशेषकायादिवृत्तीनां तद्बीजानामौदारिकादिशरीररूपाणामत्यन्तोच्छेदात्सम्पद्यत इति ॥४२१॥ अथात्रैव वक्तव्यान्तरमाह- .
धर्ममेघोऽमृतात्मा च, भवशत्रुः शिवोदयः ।
सत्त्वानन्दः परश्चेति, योज्योऽत्रैवार्थयोगतः ॥४२२॥ धर्ममेघो-धर्ममेघनामा समाधिविशेषः । अमृतात्मा चाऽमृतभावकारणत्वात् । भवशत्रुः शिवोदयः सत्त्वानन्दः परश्चेत्येवं समाधिविशेषस्तत्तत्तीर्थान्तरीयशास्त्रसिद्धः योज्यो-योजनीयः अत्रैवाऽध्यात्मादियोगे अर्थयोगतो-ऽर्थसाङ्गत्यात् । विचित्रावस्थो हि योगः, 'ततस्तदवस्थामपेक्ष्य को नाम समाधिविशेषस्तत्रान्तर्भावं न लभत इति ॥४२२ ॥ अथ सर्वसमाधिफलमाह
मण्डूकभस्मन्यायेन, वृत्तिबीजं महामुनिः ।।
योग्यतापगमाइग्ध्वा, ततः कल्याणमश्नुते ॥४२३॥ मण्डूकभस्मन्यायेन-दर्दुरशरीरक्षारीकरणदृष्टान्तेन वृत्तिबीज-शारीरमानसचेष्टानिमित्तं तत्तत्कर्मरूपं महामुनि:-क्षपकोऽनिवृत्तिबादरादिस्तत्तद्गुणस्थानकस्थः योग्यतापगमात्तत्तत्कर्मसम्बन्धयोग्यतात्यन्तोच्छेदात् दग्ध्वा शुक्लध्यानदावानलेन भस्मभावमापाद्य तत:-सर्वदहनानन्तरं कल्याणं-निवृत्तिरूपं अश्नुते-लभते ॥४२३ ॥ अथात्रापि तथाभव्यत्वमेव हेतुरिति दर्शयन्नाह
१. तत्तदवस्थामपेक्ष्य AB २. कर्मबन्धयोग्य-A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org