________________
- २७२
योगबिन्दु सूत्र : ४१८-४१९-४२०-४२१ हेतुमस्याऽकरणनियमस्य तत्तत्पापस्थानविषयस्य परमुत्कृष्टं भावमन्त:करणपरिणामं सत्त्वादीनां-शत्रुमित्रोदासीनानां जनानां आगसो-ऽशुभपरिणामरूपस्यापराधस्य निवर्तनं-निवृत्तिहेतुम् । प्रधाना-यथावस्थितवस्तुविज्ञानानुगतत्वेन भावरूपा या 'करुणा' परदुःखसमुच्छेदनप्रवृत्तिस्तद्रूपं स्वभावो यस्य तत्तथा ब्रुवते-प्रचक्षते सूक्ष्मदर्शिनो-निपुणाभोगभाज इति । यया करुणया क्रियमाणया शत्रूणामपि क्लिष्टपरिणामलक्षणोऽपराधो निवर्तते चण्डकौशिकसर्पस्येव भगवति, सा सर्वपापानामकरणनियमनिमित्तमिति ॥४१८॥ अत्रैव मतान्तरमाह
समाधिरेष एवान्यैः, सम्प्रज्ञातोऽभिधीयते । . सम्यक्प्रकर्षरूपेण, वृत्त्यर्थज्ञानतस्तथा ॥४१९॥
समाधिरेष एवाध्यात्मादिर्योगः अन्यैस्तीर्थान्तरीयैः सम्प्रज्ञातःसम्प्रज्ञातनामाऽभिधीयते । कुत इत्याह सम्यक्-यथावत् प्रकर्षरूपेण-सवितर्क निश्चयात्मकेन, 'वृत्त्यर्थज्ञानतः' वृत्तीनां नरनारकाद्यात्मपर्यायाणामर्थानांद्वीपाचलजलधिप्रभृतीनां ज्ञानतो-विकल्पनात् 'तथा' तेन प्रकारेण । यतः सम्यक् प्रकृष्टं वृत्त्यर्थज्ञानं तत्प्रकारमत्रास्ति ततोऽसौ समाधिः सम्प्रज्ञात इत्युच्यत इति ॥१९॥ अर्थतत्समाधिफलमाह
एवमासाद्य चरमं, जन्माऽजन्मत्वकारणम् ।
श्रेणिमाप्य ततः क्षिप्रं, केवलं लभते क्रमात् ॥४२०॥ एवमुक्तरूपेण समाधिना समाहितः सन् आसाद्य-क्रमेणोपलभ्य चरमं अपश्चिमं जन्म-भवं अविद्यमानजन्माऽजन्मा तद्भावोऽजन्मत्वं तस्य कारणंहेतुं श्रेणिं-क्षपकश्रेणिलक्षणं आप्य-लब्ध्वा ततः-प्राप्तेरनन्तरं क्षिप्रमचिरेण 'केवलं' ज्ञानं दर्शनं च लभते क्रमात् ॥४२०॥ ततः
असम्प्रज्ञात एषोऽपि, समाधिर्गीयते परैः । निरुद्धाशेषवृत्त्यादितत्स्वरूपानुवेधतः ॥२१॥
१. क्रमात् तद्गुणस्थानरोहणलक्षणात्-A:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org