SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ योगबिन्दु सूत्र : ४१४-४१५-४१६-४१७-४१८ २७१ शस्यते-न प्रशस्यते कङ्कटुकपाकप्रवृत्ततथाविधपाचकपुरुषकार इव ॥४१४ ॥ अतोऽकरणनियमात्, तत्तद्वस्तुगतात्तथा । वृत्तयोऽस्मिन्निरुध्यन्ते, तास्तास्तद्वीजसम्भवाः ।।४१५॥ अतस्तत्तत्स्वाभाव्यात् अकरणस्य नियमादैकान्तिकत्वलक्षणात् कीदृशादित्याह तत्तद्वस्तुगतात्-महारम्भमहापरिग्रहादिनारकादिहेतुलक्षणवस्तुगतात् तथा -'सर्वज्ञानुसारप्रकारेण वृत्तयो-नरकगमनादिलक्षणाः अस्मिन्पुरुषकारे सति निरुध्यन्ते-निवर्तन्ते तास्ताश्चित्ररूपाः तद्बीजसम्भवास्त'नरकगमनादिहेतुर्यद्बीजं कर्मलक्षणं तस्मात्सम्भवो यासां तास्तथा ॥४१५॥ इदमेव दृष्टान्तद्वारेण समर्थयमानः प्राह ग्रन्थिभेदे यथैवायं, बन्धहेतुं परं प्रति । नरकादिगतिष्वेवं, ज्ञेयस्तद्धेतुगोचरः ॥४१६॥ ग्रन्थिभेदे यथैवायमकरणनियमः बन्धहेतुं-मिथ्यात्वादिरूपं परं-प्रकृष्टं सप्ततिकोटिकोट्यादिस्थितिनिमित्तं प्रति-आश्रित्य निरूप्यते नरकादिगतिषु विषये एवं परमबन्धहेतुत्वकरणन्यायेन ज्ञेयस्तद्धेतुगोचरो नरकादिहेतुविषयोऽकरणनियमः ॥४१६ ॥ अत्रैव विपक्षे बाधामाह __ अन्यथाऽऽत्यन्तिको मृत्युर्भूयस्तत्राऽगतिस्तथा । न युज्यते हि सन्यायादित्यादि समयोदितम् ॥४१७॥ अन्यथाऽकरणनियमानभ्युपगमे आत्यन्तिको-ऽपुनर्भावी मृत्युर्नरकादिगोचरः भूयः-पुनरपि तत्र "नरकादि अगतिरात्यन्तिकी 'तथा' इति समुच्चये, न युज्यते हिर्यस्मात् सन्न्यायात्-'सद्युक्तेः किमित्याह इत्यादिआत्यन्तिकमृत्य्वादि 'समयोदितं'-सिद्धान्तनिरूपितं वस्त्विति ॥४१॥ . अथास्य हेतुदर्शनायाह हेतुमस्य परं भावं, सत्त्वाद्यागोनिवर्तनम् । प्रधानकरुणारूपं, ब्रुवते सूक्ष्मदर्शिनः ॥४१८॥ १. सर्वज्ञानानुसार-AC.; २. नरकादिहेतु-A; नरकगमनहेतु-B.C.; ३. हेत्वकरण-AC.; ४. नरकादावगति-AB.C.; ५. शुद्धयुक्ते:-AB.C.; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy