________________
. २७०
योगबिन्दु सूत्र : ४१२-४१३-४१४ जनपदत्यागात्-भवानुगतिकलोकव्यवहारपरित्यागात् किमित्याह षड्भि:उत्साहादिभिः, योग: प्रसिद्ध्यति-निष्पत्तिं लभते ॥११॥ अथास्य निश्चयोपायमाह
आगमेनानुमानेन, ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां, लभते योगमुत्तमम् ॥४१२॥ आगमेन-योगविषयेणैव अनुमानेन-तथोपपत्त्यऽन्यथानुपपत्तिरूपेण ध्यानस्याभ्यासः-पुन:पुनरनुशीलनं तस्य रसेन, चः प्राग्वत् । त्रिधा-त्रिभिरेतैः प्रकारैः प्रकल्पयन्-व्यापारयन् प्रज्ञां-बुद्धिं लभते-निश्चिनोति, योगमुत्तमं भावरूपमिति ॥४१२॥ कथमित्याह
आत्मा कर्माणि तद्योगः, सहेतुरखिलस्तथा ।
फलं द्विधा वियोगश्च, सर्वं तत्तत्स्वभावतः ॥४१३॥ आत्मा-जीवः समस्ति, कर्माण्यात्मव्यतिरिक्तानि सन्ति, तद्योगस्तयोर्जीवकर्मणोर्वययस्पिण्डयोरिव योगो मीलक: सहेतुर्मिथ्यात्वादिकारणनिमित्त: अखिल:-सकलकालगतः, तथा फलं कार्यं नारकत्वादि तद्योगस्य द्विधाशुभाशुभप्रकारवत्, वियोगश्च-तद्योगविघटनलक्षण: समस्ति 'सहेतुः' इत्यनुवर्तते । सर्वमात्माद्येतत् तत्तत्स्वभावतः-तेषामात्मादीनां स आत्मादिपरिणतिरूपो यः स्वभावः स्वसत्तालक्षणस्तस्मात् । न हि स्वभावशून्यत्वे वन्ध्यासुतादीनामिव काचिदात्मत्वादिपरिणतिः कस्यचिदस्तीति तत्तत्स्वभावनिबन्धनं सर्वं वस्तु स्वरूपं लभत इति' ॥४१३॥ एवं सति यद्भवति तदाह
अस्मिन्पुरुषकारोपि, सत्येव सफलो भवेत् ।
अन्यथा न्यायवैगुण्याद्, भवनपि न शस्यते ॥४१४॥ अस्मिन्स्वभावत्वे 'पुरुषकारोऽपि' न केवलं कालादय इत्यपिशब्दार्थः सत्येव विद्यमान एव सफलः स्वकार्यकृत् भवेत् । अन्यथा-तत्तत्स्वभावत्वाभावे न्यायवैगुण्यानीतिविरहलक्षणात् भवन्नपि पुरुषकारः तथाविधाऽज्ञानदोषात्, न
१. त्यागाद्गतानुगति-A; २. पद्यमिदंयोगसारपराभृते (७-४२) समाधतिन्त्रे (३) च वर्तते ॥ ३. स्वभाव्यं-AB.C.; ४. अस्मिंस्तत्स्व-AB.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org