________________
योगबिन्दु सूत्र : ४०८-४०९-४१०-४११
२६९ पल्लवादीनां पल्लवपुष्पफलादीनां अपुनर्भाव:-पुनरभवनं न-नैव स्कन्धापगमे-स्थुडोच्छेदे तरोर्वटादेः स्याद्-भवेत् मूलापगमे-मूलोच्छेदे यद्वद्यथा स्यात् तद्वत्-तथा भवतरोरपि-संसारवृक्षस्यापीति । यथा हि "मूलानुच्छेदे कन्दोच्छेदे कृतेऽपि न पल्लवादीनामत्यन्तसमुच्छेदः, मूलावष्टम्भेन पुनर्भावसम्भवात्, एवं नारकतिर्यगादिभावोच्छेदेऽपि न भववेद्यविकाराणामत्यन्तसमुच्छेदस्तद्भवयोग्यकर्मबंधयोग्यतोच्छेदमन्तरेणेति ॥४०८ ॥ अथामुमेव दृष्टान्तदार्टान्तिकभावं भावयन्नाह
मूलं च योग्यता ह्यस्य, विज्ञेयोदितलक्षणा ।
पल्लवा वृत्तयश्चित्रा, हन्त तत्त्वमिदं परम् ॥४०९॥ मूलं च-मूलं पुनः योग्यता हि - योग्यतैव अस्य भवतरोः, विज्ञेयोदितलक्षणा निरूपितरूपा प्राक् । पल्लवा वृत्तयो-व्यापारा: चित्रानानाप्रकाराः । 'हन्त' इति प्राग्वत् तत्त्वमिदं परं प्रकृष्टमिति ॥४०९॥ एवं यत्सिद्धं तदाह
उपायोपगमे चास्या, एतदाक्षिप्त एव हि ।
तत्त्वतोऽधिकृतो योग उत्साहादिस्तथास्य तु ॥४१०॥ · उपायोपगमे च सर्वकार्येषूपायतत्त्वाङ्गीकारे सति पुनः अस्या योग्यतायाः किमित्याह 'एतदाक्षिप्त एव हि' तथाभव्यत्वरूपया योग्यतयैवाक्षिप्तः तत्त्वतः परमार्थवृत्त्या अधिकृत: अध्यात्मादि: योग: वर्तते । अत्र विशेषहेतुनिर्धारणायाह 'उत्साहादिः' वक्ष्यमाणः 'तथा' इति समुच्चये अस्य तु-योगस्य पुनरुपाय: ॥४१०॥ एतदेवाह
उत्साहानिश्चयाद्धर्यात्, संतोषात्तत्त्वदर्शनात् ।
मुनेर्जनपदत्यागात्, षड्भिर्योगः प्रसिद्धयति ॥४११॥ उत्साहाद्-वीर्योल्लासात्, निश्चयात्-कर्तव्यैकाग्रपरिणामात् धैर्याद् व्यसनोपनिपातेऽपि प्रतिज्ञातोऽविचलनात्, सन्तोषादात्मारामतालक्षणात्, तत्त्वदर्शनाद्-'योग एवेह परमार्थ' इति 'समालोचनात् मुनेः-योगिनः
१. समवलोकनात् मुनेः-A; ...
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org