________________
योगबिन्दु सूत्र : ४४६-४४७-४४८-४४९
२८१ हेतुविरहेण । आचार्य:-'तद्धि' निमित्तं 'आवरणसङ्गतं' छद्मस्थकालभावि ज्ञानावरणाद्यपरनामकप्रकृतियुक्तं तदानीं तस्य प्रमातु'रथाप्यपरिनिष्ठित विप्लवकरणापेक्षित्वात् । अथ संवेदनचैतन्ययोराचार्येणैकतया प्राक्प्रतिष्ठितयोनिराकरणाय परः प्राह-न च-नैव तत्तत्स्वभावत्वात्-तस्यात्मनस्तत्स्वभावत्वात्-संवेदनरूपत्वात् संवेदनमिदं चैतन्यं यतः ॥४४६ ॥
चैतन्यमेव विज्ञानमिति नास्माकमागमः ।
किन्तु तन्महतो धर्मः, प्राकृतश्च महानपि ॥४४७॥ __ चैतन्यमेव-नापरं किञ्चित् विज्ञान-संवेदनं इत्येवं न-नैव अस्माकं सांख्यानां आगमः-सिद्धान्तः, किं तु तद्विज्ञानं महतो-बुद्धितत्त्वस्य धर्मःपरिणामः, प्राकृतश्च प्रकृतिविकाररूप: पुनः महानपि । तथा च तत्सिद्धान्त:प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्, पञ्चभ्यः पञ्च भूतानि ॥ (सां. का. २२) इत्यादीति ।।४४७॥- अत्र प्रतिविधत्ते
बुद्धयध्यवसितस्यैवं,, कथमर्थस्य चेतनम् ।
गीयते तत्र नन्वेतत्, स्वयमेव निभाल्यताम् ॥४४८॥ बुद्ध्यध्यवसितस्य-बोर्बु प्रतिपन्नस्य एवं चैतन्यस्याऽविज्ञानत्वे सति कथं केन प्रकारेण अर्थस्य-शब्दादेविषयस्य, चेतनं आत्मनो विज्ञानं गीयते तत्रागमे-"बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते" इति वचनात्, यदि हि चैतन्यविज्ञानयोर्भेद एव तदा कथं 'बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयत' इति भवद्भिः प्रतिपद्यते, "चिती संज्ञाने" इति वचनाच्चैतन्यविज्ञानयोरेकत्वस्यापनत्वात्, ननु इति परपक्षाऽक्षमायां, एतदस्मदुक्तं, स्वयमेव निभाल्यतांप्रज्ञाचक्षुषा वीक्ष्यतामिति ॥४४८॥ अथ पर:
पुरुषोऽविकृतात्मैव, स्वनि समचेतनम् ।
मनः करोति सानिध्यादुपाधिः स्फटिकं यथा ॥४४९॥ पुरुष आत्मा कीदृशः सन्नित्याह अविकृतात्मैव-सर्वतः स्वस्वरूपात्किञ्चिदप्रच्यवमानो नित्य एवं सन्नित्यर्थः किमित्याह स्वनिर्भासं-स्वस्येवात्मन
१. रद्यापि-c.; २. विप्लवकवत्-AB.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org