________________
२८२
योगबिन्दु सूत्र : ४४९-४५०-४५१
इव निर्भास आकारो यस्येति विग्रहस्तत्, प्रतिपन्नचेतनभावमित्यर्थः । अचेतनं प्रकृतिविकारतया चैतन्यशून्यं सत् मनो- बुद्धिलक्षणमन्तःकरणं कर्मतापन्नं करोति - विधत्ते । कुत इत्याह सान्निध्यात् - सन्निधानमात्रेण । निदर्शनमाह 'उपाधिः ' उप-समीपे आधीयते धार्यत इत्युपाधिः पद्मरागजपाकुसुमादिः कर्ता तदवस्थः 'एवं स्फटिकं-अर्कनिशाकरसम्पर्कोदीर्यमाणवैश्वानर जलमश्मविशेषं, यथा येन प्रकारेण, स्वनिर्भासमारूढस्वकीयरक्तपीत 'नीलच्छायं करोतीति ॥४४९ ॥
यदि नामैवं ततः किमित्याह
विभक्तेदृक्परिणतौ, बुद्धौ भोगोऽस्य कथ्यते ।
प्रतिबिम्बोदयः स्वच्छे, यथा चन्द्रमसोऽम्भसि ॥४५० ॥ विभक्ता - बुद्धिप्रतिष्ठितत्वेनात्मनो विभागवर्तिनी, सा चासावीदृक्परिणतिश्च बुद्धिचैतन्याधानप्रधाना आत्मन एव प्रतिबिम्बोदयरूपा 'विभक्तेदृक्परिणति: ' तस्यां सत्याम् । कस्यामाधारभूतायामित्याह 'बुद्धौ'- अन्तःकरणलक्षणायां शब्दादिविषयरूपबहिरर्थाध्यवसाय समर्थायां भोगो-विषयानुभवः सैवेदृक्परिणतिर्भोग इत्यर्थः अस्य पुरुषस्य कथ्यते प्रतिपाद्यत आसुरिप्रभृतिभिः । दृष्टान्तमाह प्रतिबिम्बोदयः-प्रतिबिम्बपरिणामः स्वच्छे पङ्कादिमलसम्पर्ककालुष्यविकले यथा-येन प्रकारेण, चन्द्रमसः - मृगलाञ्छनस्य वास्तवस्य अम्भसि उदके । इदमुक्तं भवति-यथा 'स्वच्छमम्भः तथा स्वभावत एव निर्मलरूपा बुद्धि:, यथा च तत्र स्वप्रतिबिम्बोदयसम्पादनसामर्थ्यवान् स्वभावत एव चन्द्रमाः तथात्मापि बुद्धौ, यश्च तत्र बुद्धावात्मनः प्रतिबिम्बोदयः स एवास्य भोगः नान्यत्किंचिदिति ॥४५० ॥ अत्र प्रतिविधत्ते
स्फटिकस्य तथानामभावे तदुपधेस्तथा ।
विकारो नान्यथासौ स्यादन्धाश्मन इव स्फुटम् ॥४५१ ॥ स्फटिकस्य सूर्यकान्तनाम्नोऽश्मविशेषस्य तथानामभावे तत्प्रकारपरिणामान्तरप्राप्तौ सत्यां तदुपधेः स्फटिकोपाधिभूतस्य पद्मरागादेस्तथानामभावे ' तथा '
१. एव स्फटिकं - A.B.C.; २. 'जल' इतिपदं - A.B.C. प्रतिषु नास्ति; ३. नीलादिच्छायंA.B.C.; ४. सामर्थ्यायाम् - B. C. ५. च स्वच्छ - A.; तत्स्वच्छ-B. C. ;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org