Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 303
________________ २७६ योगबिन्दु सूत्र : ४३१-४३२-४३३ . संविद् ज्ञानं अस्या-ऽऽत्मनः उपपद्यते । अन्यथा 'तत्स्वभावत्वे (अज्ञस्वभावत्वे) स्वव्यतिरिक्तज्ञानयोगेऽपि प्रदीपहस्तान्धवन्न किञ्चिदयमात्मा जानीयादिति । ___ न च वक्तव्यं “संविदेवास्य न भविष्यति" इत्याह एषा च-संविद् बाह्याभ्यन्तरार्थीविषयाणां पुन: अनुभवात्सिद्धा-संवेदनात्प्रतिष्ठिता कथमित्याह 'प्रतिप्राण्येव' सर्वजीवव्याप्त्यैव, देहिनां-जीवानामिति ॥४३०॥ . . . ज्ञस्वभावतामेवाधिकृत्याह अग्नेरुष्णत्वकल्पं तज्ज्ञानमस्य व्यवस्थितम् । प्रतिबन्धकसामर्थ्यान्न स्वकार्ये प्रवर्तते ॥४३१॥ अग्नेरुष्णत्वकल्पं-स्वभावभूतमित्यर्थः तच्चैतन्यापरनामकं ज्ञानं केवलज्ञानलक्षणं अस्यात्मनः व्यवस्थितं-प्रतिष्ठितम् । यदि नामैवं, ततः किं न सर्वार्थविषयं सर्वदा प्रवर्तत इत्याह 'प्रतिबन्धकसामर्थ्यात्' ज्ञानावरणोदयलक्षणात्, न स्वकार्ये सर्वार्थपरिच्छेदरूपे प्रवर्तते ॥४३१॥ एतदेव व्यतिरेकत आह- , ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धके । .. ___ दाह्येऽग्निर्दाहको न स्यात्, कथमप्रतिबन्धकः ॥३२॥ ज्ञो-ज्ञाता स्वभावत एव सन्नात्मा ज्ञेये-जीवादावर्थे कथमज्ञः स्यानैवेत्यर्थः असति 'प्रतिबन्धके' ज्ञानावरणाद्युदये सयोगिकेवल्याद्यवस्थायाम् । एतदेव प्रतिवस्तूपमयाह 'दाह्ये'-दग्धुं शक्ये सति तृणादौ अग्निर्दाहक:-भस्मावस्थाकारी न स्यात् कथमप्रतिबन्धक:-अविद्यमानमन्त्रादिस्तम्भः ॥४३२॥ सर्वाण्येव हि ज्ञानानि सन्निहितविषयाण्येव प्रवर्तन्ते यथा चक्षुर्ज्ञानं, ज्ञानं च भवतां केवलं, तथा दृष्टान्ततयोपन्यस्तोऽग्निः सन्निहितदाह्यदाहक एवेति देशविप्रकर्षः एव प्रतिबन्धकः, कथमस्याऽस्मिन्सति सर्वार्थविषयत्वमित्याशङ्कय परिहरनाह- . न देशविप्रकर्षोऽस्य, युज्यते प्रतिबन्धकः । तथानुभवसिद्धत्वादग्नेरिव सुनीतितः ॥४३३॥ १. अस्य स्वभावत्वे-B.C.; २. विषया पुन:-AB.C.: ३. दाह एवे-B.C.; Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346