Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 304
________________ २७७ योगबिन्दु सूत्र : ४३३-४३४-४३५ न-नैव देशविप्रकर्षः स्वर्गपातालादिरूपः अस्य-केवलस्य युज्यते प्रतिबन्धकः ।तथानुभवसिद्धत्वाद्-यथा देशविप्रकर्षो मेरुमकराकरादिविषयगतो ज्ञानविशेषप्रवृत्तौ प्रतिबन्धको न भवति, तथानुभवस्य स्वसंवेदनरूपस्य सिद्धत्वात् । 'अग्नेरिव' इति वैधर्म्यदृष्टान्तः सुनीतित:-सन्यायात् । यथाग्नेर्देशविप्रकर्षः प्रतिबन्धकः, न तथा केवलस्येत्यर्थः ॥४३३ ।। तर्हि कथमनयोदृष्टान्तदाान्तिकभाव इत्याशंक्याह अंशतस्त्वेष दृष्टान्तो, धर्ममात्रत्वदर्शकः । अदाह्याऽदहनाद्येवमत एव न बाधकम् ॥४३४॥ अंशतस्तु-देशादेव एषोऽग्नेर्दाहकत्वलक्षणो दृष्टान्तः कीदृश इत्याह 'धर्ममात्रत्वदर्शक:'-यथाऽग्नेर्दाहकत्वं स्वलक्षणं तथाऽऽत्मनो ज्ञानमिति ख्यापकः, न पुनः साधर्म्यात् । ततः किं सिद्धमित्याह 'अदाह्यस्य' वंशीमूलादेरदहनादि-अदहनं, आदिशब्दाद्विप्रकृष्टादहनं च । “एवं' धर्ममात्रत्वदर्शने सिद्धे सति अत एवांशतो दृष्टान्तात् 'न बाधकं' केवलस्य सर्वार्थविषयत्वख्यापनेन(ख्यापने) नैव क्षतिकारि ॥४३४॥ अथ प्रस्तुतं सर्वज्ञत्वमेव भावयति- . - सर्वत्र सर्वसामान्यज्ञानाज्ज्ञेयत्वसिद्धितः । तस्याखिलविशेषेषु, तदेतन्यायसङ्गतम् ॥४३५॥ 'सर्वत्र' विषये दूरासन्नादिभेदभिन्ने 'सर्वसामान्यं' सर्वस्य साधारणं यत्सत्त्वादि तस्य ज्ञानाद्-अवबोधात् 'ज्ञेयत्वसिद्धितो' ज्ञेयभावसिद्धेः । एकस्मिन्नपि ह्युत्पादव्ययध्रौव्यरूपेण सत्त्वेन विशिष्टे घटादावर्थे 'परिज्ञाते सत्यन्यस्यापि तद्रूपतानतिक्रमात्परिज्ञानं कथञ्चिदुपपन्नमेवेति, किमित्याह 'तस्य' आत्मनः प्रतिबन्धकाभावे 'अखिलविशेषेषु'-अतीतानागतादिभेदेषु, 'तदेतत्' प्रकृतमेव केवलज्ञानं 'न्यायसङ्गतं' उपपत्रमिति यतो, “यो यः सामान्यज्ञानविषयोऽर्थः स स कस्यचित्प्रत्यक्षो भवति, यथा धूमादनुमीयमानोऽग्निः, सामान्यज्ञानविषयाश्च सर्वे भावाः तस्मात्ते कस्यचित्प्रत्यक्षा अपि स्युरिति" ॥ पुनरपीदमेव भावयति१. परिज्ञाने-B.C.; Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346