Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 299
________________ - २७२ योगबिन्दु सूत्र : ४१८-४१९-४२०-४२१ हेतुमस्याऽकरणनियमस्य तत्तत्पापस्थानविषयस्य परमुत्कृष्टं भावमन्त:करणपरिणामं सत्त्वादीनां-शत्रुमित्रोदासीनानां जनानां आगसो-ऽशुभपरिणामरूपस्यापराधस्य निवर्तनं-निवृत्तिहेतुम् । प्रधाना-यथावस्थितवस्तुविज्ञानानुगतत्वेन भावरूपा या 'करुणा' परदुःखसमुच्छेदनप्रवृत्तिस्तद्रूपं स्वभावो यस्य तत्तथा ब्रुवते-प्रचक्षते सूक्ष्मदर्शिनो-निपुणाभोगभाज इति । यया करुणया क्रियमाणया शत्रूणामपि क्लिष्टपरिणामलक्षणोऽपराधो निवर्तते चण्डकौशिकसर्पस्येव भगवति, सा सर्वपापानामकरणनियमनिमित्तमिति ॥४१८॥ अत्रैव मतान्तरमाह समाधिरेष एवान्यैः, सम्प्रज्ञातोऽभिधीयते । . सम्यक्प्रकर्षरूपेण, वृत्त्यर्थज्ञानतस्तथा ॥४१९॥ समाधिरेष एवाध्यात्मादिर्योगः अन्यैस्तीर्थान्तरीयैः सम्प्रज्ञातःसम्प्रज्ञातनामाऽभिधीयते । कुत इत्याह सम्यक्-यथावत् प्रकर्षरूपेण-सवितर्क निश्चयात्मकेन, 'वृत्त्यर्थज्ञानतः' वृत्तीनां नरनारकाद्यात्मपर्यायाणामर्थानांद्वीपाचलजलधिप्रभृतीनां ज्ञानतो-विकल्पनात् 'तथा' तेन प्रकारेण । यतः सम्यक् प्रकृष्टं वृत्त्यर्थज्ञानं तत्प्रकारमत्रास्ति ततोऽसौ समाधिः सम्प्रज्ञात इत्युच्यत इति ॥१९॥ अर्थतत्समाधिफलमाह एवमासाद्य चरमं, जन्माऽजन्मत्वकारणम् । श्रेणिमाप्य ततः क्षिप्रं, केवलं लभते क्रमात् ॥४२०॥ एवमुक्तरूपेण समाधिना समाहितः सन् आसाद्य-क्रमेणोपलभ्य चरमं अपश्चिमं जन्म-भवं अविद्यमानजन्माऽजन्मा तद्भावोऽजन्मत्वं तस्य कारणंहेतुं श्रेणिं-क्षपकश्रेणिलक्षणं आप्य-लब्ध्वा ततः-प्राप्तेरनन्तरं क्षिप्रमचिरेण 'केवलं' ज्ञानं दर्शनं च लभते क्रमात् ॥४२०॥ ततः असम्प्रज्ञात एषोऽपि, समाधिर्गीयते परैः । निरुद्धाशेषवृत्त्यादितत्स्वरूपानुवेधतः ॥२१॥ १. क्रमात् तद्गुणस्थानरोहणलक्षणात्-A: Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346