Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust
View full book text
________________
२६८ योगबिन्दु सूत्र : ४०४-४०५-४०६-४०७-४०८ जीवे, अधीति आधारभूते, 'इति' इत्येतस्य पूर्वोक्तार्थस्य, 'संवृत्तेः'-साङ्गत्येन वर्तनात्, ज्ञेयमध्यात्मचिन्तकै:-भावयोगिभिरिति ॥४०४॥ अथ वृत्तिसंक्षयमधिकृत्याह
भावनादित्रयाभ्यासाद्, वर्णितो वृत्तिसंक्षयः ।।
स चात्मकर्मसंयोगयोग्यतापगमोऽर्थतः ॥४०५॥ भावनादि-भावनाध्यानसमतालक्षणं यद्योगत्रयं तस्याभ्यासातू, 'वर्णितो वृत्तिसंक्षयः' पञ्चमो योगभेदो योगशास्त्रेषु । स च-स पुनर्वृत्तिसंक्षयः आत्मनः कर्मसंयोगयोग्यताया अपगमो निवृत्तिरर्थतः परमार्थमपेक्ष्येति ॥४०५ ॥ इदमेव भावयति
स्थूरसूक्ष्मा यतश्चेष्टा आत्मनो वृत्तयो मताः ।
अन्यसंयोगजाश्चैता योग्यता बीजमस्य तु ॥४०६॥ स्थूरा-गमनागमनादिरूपाः सूक्ष्माश्चोच्छवासनि:श्वासादिरूपा: यतो-यस्मात् चेष्टा:-जीवप्रदेशपरिस्पन्दलक्षणाः आत्मनो वृत्तयो-व्यापाराः मताः । ततः किमित्याह अन्यसंयोगजाश्च'-अन्येन कर्मणा सह यो जीवस्य संयोगस्तस्माज्जाता एव एताः चेष्टाः, योग्यता बीजं-हेतुः अस्य तु-'अस्य संयोगस्य पुनः ४०६॥ अत्रैव विपक्षे बाधामाह
तदभावेऽपि तद्भावो, युक्तो नातिप्रसङ्गतः ।
मुख्यैषा भवमातेति, तदस्या अयमुत्तमः ॥४०७॥ तदभावेऽपि योग्यताविरहे योग्यतायां पुनः स्यादेव तद्भाव इत्यपिशब्दार्थ:तद्भावोऽन्यसंयोगभावः-युक्तो घटमानः न-नैव, अतिप्रसंगतोऽतिप्रसंगदोषव्याघातात्, मुख्यैषा अन्यसंयोगयोग्यता, भवमाता-संसारजननी, इति: पदसमाप्ती, तत्-तस्मात् अस्या अन्ययोगयोग्यतायाः सकाशात् अयमन्यसंयोगः उत्तमोऽनुपचरितः ॥४०७॥ एतदेव भावयति
पल्लवाद्यपुनर्भावो, न स्कन्धापगमे तरोः । स्यान्मूलापगमे यद्वत्, तद्वद्भवतरोरपि ॥४०८॥
१. अन्यसंयोगस्य-A.B.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346