Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust
View full book text
________________
२६६ योगबिन्दु सूत्र : ३९७-३९८-३९९-४००
स्थानकालक्रमोपेतं, शब्दार्थानुगतं तथा । . . .
अन्याऽसंमोहजनकं, श्रद्धासंवेगसूचकम् ॥३९८॥ स्थानेन-चैत्य वन्दनायोग्यशरीरसंस्थानरूपेण, कालेन-संध्यात्रयादिना, क्रमेण-प्रणिपातदण्डकादिना उपेतं-युतम् । इष्टं देवादिवंदनं इत्युत्तरेण योगः, शब्दार्थानुगतं देवादिवन्दनसूत्राभिधेयोपयोगयुक्तम् तथा इति विशेषणसमुच्चये अन्याऽसंमोहजनकं-युक्तस्वरप्रधानतया स्वव्यतिरिक्ततदनुष्ठानप्रवृत्तजनाऽसंमोहसंपादकम् तथा श्रद्धासंवेगसूचकं-श्रद्धासंवेगयोः प्रतीतरूपयोरभिव्यक्तिहेतुः ॥३९८॥ तथा
प्रोल्लसद्भावरोमाञ्चं, वर्धमानशुभाशयम् । .
अवनामादिसंशुद्धमिष्टं देवादिवन्दनम् ॥३९९॥ प्रोल्लसत्-जृम्भमाणो भावरोमाञ्चोऽकृत्रिमपुलकरूपो यत्र तत्तथा, वर्धमानः शुभ आशयो यत्र तत्तथा, अवनामादयोऽवनामयथाजातादयो वन्दनकोपयोगिनो ये क्रियाविशेषाः तैः संशुद्ध-अनवद्यं इष्टमभिमतं देवादिवन्दनंप्रागुक्तरूपमिति ॥३९९॥
प्रतिक्रमणमप्येवं, सति दोषे प्रमादतः ।
तृतीयौषधकल्पत्वाद, द्विसन्ध्यमथवाऽसति ॥४००॥ प्रतिक्रमणमपि-षड्विधावश्यकक्रियारूपं एवं' - देवादिवन्दनन्यायेनेष्टम् 'सति दोषे' गुप्तिसमितिगुरुविनयभङ्गादिलक्षणे प्रमादतस्तथाविधानाभोगादिप्रमादात् । अत्रैव पक्षान्तरमाह-तृतीयौषधकल्पत्वात् ।
इह त्रीण्यौषधानि । तत्रैकं प्रयुज्यमानं व्याधिभावे तं नाशयति अभावे पुनस्तं करोति । द्वितीयं पुन: सन्तं व्याधिमपनयति, तदभावे तु न गुणाय नापि दोषाय । तृतीयं तु सन्तं दोषमपनयति, असत्त्वे च रसायनतया परिणमति। ततस्तृतीयौषधकल्पत्वात् द्विसन्ध्यं-द्वे प्राभातिकसायन्तन्यौ सन्ध्ये यत्र तत्तथा 'अथवा' इति विकल्पान्तरे असति दोष इति ॥४०० ॥
__ अथ यद्विषयमेतत्तदाह
१. वन्दनामित्यनेन-A;- २. देवादिवन्दनासूत्राभि-A.B.; ३. प्रोल्लसतुजृम्भ-AB.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346