SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २६६ योगबिन्दु सूत्र : ३९७-३९८-३९९-४०० स्थानकालक्रमोपेतं, शब्दार्थानुगतं तथा । . . . अन्याऽसंमोहजनकं, श्रद्धासंवेगसूचकम् ॥३९८॥ स्थानेन-चैत्य वन्दनायोग्यशरीरसंस्थानरूपेण, कालेन-संध्यात्रयादिना, क्रमेण-प्रणिपातदण्डकादिना उपेतं-युतम् । इष्टं देवादिवंदनं इत्युत्तरेण योगः, शब्दार्थानुगतं देवादिवन्दनसूत्राभिधेयोपयोगयुक्तम् तथा इति विशेषणसमुच्चये अन्याऽसंमोहजनकं-युक्तस्वरप्रधानतया स्वव्यतिरिक्ततदनुष्ठानप्रवृत्तजनाऽसंमोहसंपादकम् तथा श्रद्धासंवेगसूचकं-श्रद्धासंवेगयोः प्रतीतरूपयोरभिव्यक्तिहेतुः ॥३९८॥ तथा प्रोल्लसद्भावरोमाञ्चं, वर्धमानशुभाशयम् । . अवनामादिसंशुद्धमिष्टं देवादिवन्दनम् ॥३९९॥ प्रोल्लसत्-जृम्भमाणो भावरोमाञ्चोऽकृत्रिमपुलकरूपो यत्र तत्तथा, वर्धमानः शुभ आशयो यत्र तत्तथा, अवनामादयोऽवनामयथाजातादयो वन्दनकोपयोगिनो ये क्रियाविशेषाः तैः संशुद्ध-अनवद्यं इष्टमभिमतं देवादिवन्दनंप्रागुक्तरूपमिति ॥३९९॥ प्रतिक्रमणमप्येवं, सति दोषे प्रमादतः । तृतीयौषधकल्पत्वाद, द्विसन्ध्यमथवाऽसति ॥४००॥ प्रतिक्रमणमपि-षड्विधावश्यकक्रियारूपं एवं' - देवादिवन्दनन्यायेनेष्टम् 'सति दोषे' गुप्तिसमितिगुरुविनयभङ्गादिलक्षणे प्रमादतस्तथाविधानाभोगादिप्रमादात् । अत्रैव पक्षान्तरमाह-तृतीयौषधकल्पत्वात् । इह त्रीण्यौषधानि । तत्रैकं प्रयुज्यमानं व्याधिभावे तं नाशयति अभावे पुनस्तं करोति । द्वितीयं पुन: सन्तं व्याधिमपनयति, तदभावे तु न गुणाय नापि दोषाय । तृतीयं तु सन्तं दोषमपनयति, असत्त्वे च रसायनतया परिणमति। ततस्तृतीयौषधकल्पत्वात् द्विसन्ध्यं-द्वे प्राभातिकसायन्तन्यौ सन्ध्ये यत्र तत्तथा 'अथवा' इति विकल्पान्तरे असति दोष इति ॥४०० ॥ __ अथ यद्विषयमेतत्तदाह १. वन्दनामित्यनेन-A;- २. देवादिवन्दनासूत्राभि-A.B.; ३. प्रोल्लसतुजृम्भ-AB.; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy