SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ योगबिन्दु सूत्र : ३९४-३९५-३९६-३९७ २६५ पुनः ज्ञेयमारब्धकर्मणि अणुव्रतादिपालनरूपे कुतः ? यतः पापकर्मोदयात्पापकर्मविपाकात् अत्र धर्मकर्मणि भयं भङ्गादिविषयं सञ्जायते ततस्तदुपशान्तयेभयोपशमनिमित्तम् ॥३९४॥ किमित्याह विस्रोतोगमने न्याय्यं, भयादौ शरणादिवत् । गुर्वाद्याश्रयणं सम्यक्, ततः स्यादुरितक्षयः ॥३९५॥ विस्रोतोगमने विमार्गप्रवृत्तौ चेतसः सति न्याय्यं-युक्तम् भयादौ-भयरोगविषविकारादिरूप उपस्थिते सति शरणादिवदुर्गादिप्रतिग्रहचिकित्सामन्त्रादेरिव गुर्वाद्याश्रयणं-गुर्वादेः-गुरुदेवसाधर्मिकादेविस्रोतसिकानिग्रहहेतोराश्रयणमङ्गीकरणं सम्यक् यथावत् ततो-गुर्वाद्याश्रयणात् स्याद्-भवेत् दुरितक्षयो-विस्रोतोगमनहेतुकर्मनाशोऽचिन्त्यशक्तियुक्तत्वादस्येति ॥३९५ ॥ अस्यैवाध्यात्मत्वं भावयन्नाह- . सर्वमेवेदमध्यात्म, कुशलाशयभावतः । औचित्याद्यत्र नियमाल्लक्षणं यत्पुरोदितम् ॥३९६ ॥ 'सर्वमेवेदमौचित्यालोचनादि अध्यात्म कुशलाशयभावतः-प्रशस्तचित्तसद्भावात्, अत्र हेतुः "औचित्याद्वृत्तयुक्त" (३५८) श्लोकोक्तं, यत्र स्वौचित्यालोचनादौ नियमाल्लक्षणं स्वरूपं यद्यस्मात् वर्तते इति पुरोदितम् ॥३९६॥ अत्रैव पुनरपि मतान्तरमाह देवादिवन्दनं सम्यक्, प्रतिक्रमणमेव च । मैत्र्यादिचिन्तनं चैतत्, सत्त्वादिष्वपरे विदुः ॥३९७॥ देवादीनां 'देवप्रभृतीनां वन्दनं-स्तवनं नमनरूपम् । सम्यक्प्रतिक्रमणमेव च-"स्वस्थानाद्यत्परं स्थानं, प्रमादस्य वशाद् गतः । भूयोऽप्यागमनं तत्र, प्रतिक्रमणमुच्यते ॥" - इत्येवंलक्षणम् मैत्र्यादिचिन्तनं चैतदध्यात्मम् सत्त्वादिषुसत्त्वगुणाधिकक्लिश्यामानाविनयेषु विषये अपरे विदुर्जानते ॥३९७ ॥ अथ देवादिवन्दनाद्येव क्रमेण व्याचष्टे १. सर्वमेवेदमात्मौचित्या-AB.; २. देवगुरुप्रभृतीनां-AB.; ३. परस्थानं-A.B.; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy