________________
योगबिन्दु सूत्र : ३९१-३९२-३९३-३९४ अनन्तरम् यथागमं आगमानुसारेण 'नन्दीतूरमि' त्यादिरूपेण । किमित्याह 'स्वौचित्यालोचनं' प्राहुः-ब्रुवते, 'योगमार्गकृतश्रमाः' उक्तरूपा एव ॥३९०॥ अथ स्वयमेवैतत्रितयमाचष्टे- योगा: कायादिकर्माणि, जनवादस्तु तत्कथा ।
शकुनादीनि लिङ्गानि, स्वौचित्यालोचनास्पदम् ॥३९१॥ 'योगा: कायादिकर्माणि' कायप्रभृतिव्यापाराः 'जनवादस्तु'-लोकप्रवादः पुनः 'तत्कथा' प्रस्तुतधर्माधिकारिवृत्तान्तोऽक्लिष्टः, 'शकुनादीनि' शकुनोपश्रुतिशेषानिमित्तान्वेषणलक्षणानि 'लिङ्गानि किमित्याह 'स्वौचित्यालोचनास्पदं' आस्पदं इत्याश्रयः ॥३९१॥
एकान्तफलदं ज्ञेयमतो धर्मप्रवर्तनम् ।
अत्यन्तं भावसारत्वात् तत्रैव प्रतिबन्धतः ॥३९२॥ 'एकान्तफलदं' निश्चयेनाभीष्टफलदायि ज्ञेयं अत: स्वौचित्यालोचनादनंतरोक्ताद्धर्मप्रवर्तनम् । कुत इत्याह अत्यन्तं-अतीव भावसारत्वात्भावप्रधानत्वात् तत्रैव-धर्मे प्रतिबन्धतः-धर्मप्रतिबन्धमन्तरेणौदयिकभावोपहतत्वेन स्वौचित्यालोचनायोगात् ॥३९२ ॥ अत्रैव विशेषमाह
तद्भङ्गादिभयोपेतस्तत्सिद्धौ चोत्सुको दृढम् ।
यो धीमानिति सन्यायात्, स यदौचित्यमीक्षते ॥३९३॥ तस्य-प्रस्तोतुमिष्टस्य योगस्य भङ्गादिभयेन-आदिशब्दादतिचारभयेन चोपेतो-युक्तः तत्सिद्धौ-चिकीर्षितधर्मनिष्पत्तिविषये 'च:' समुच्चये 'उत्सुक:'श्रद्धातिरे कात्सत्वरः दृढ मतीव यो धर्माधिकारी धीमान् - कार्यपरिणामपर्यालोचकबुद्धिधन इत्येवम् सन्यायात्-शुद्धयुक्तेः स यद्यस्मात् औचित्यमुक्तरूपम् ईक्षतेऽपेक्षणीयतया पश्यतीति ॥३९३ ॥
आत्मसम्प्रेक्षणं चैव ज्ञेयमारब्धकर्मणि ।
पापकर्मोदयादत्र, भयं तदुपशान्तये ॥३९४॥ 'आत्मसम्प्रेक्षणं चैव'-किं कृतं किं वा कर्तव्यशेषमित्याद्यात्मनिभालनरूपं
१. अथ क्रमेणैतत्त्रितय-A.; २. सनिमित्तत्वा-A; ३. लोचनस्यायोगात्-A.B.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org