________________
२६७
योगबिन्दु सूत्र : ४०१-४०२-४०३-४०४ निषिद्धासेवनादि यद्, विषयोऽस्य प्रकीर्तितः ।
तदेतद्भावसंशुद्धः, कारणं परमं मतम् ॥४०१॥ - निषिद्धासेवनादि-"पडिसिद्धाणं करणे १, किच्चाणमकरणे २ य पडिकमणं असद्दहणे ३ य तहा, विवरीयपरूवणाए ४ य ॥१॥" इति 'सूत्रोक्तात् यद्यस्मात्कारणात् विषयोऽस्य-प्रतिक्रमणस्य, प्रकीर्तितः तत्तस्मात् एतत्प्रतिक्रमणं भावसंशुद्धेरन्त:करणनिर्मलतायाः कारणं परमं-प्रकृष्टं मतम् ॥४०१॥
मैत्रीप्रमोदकारुण्यमाध्यस्थ्यपरिचिन्तनम् ।
सत्त्वगुणाधिकक्लिश्यमानाऽप्रज्ञाप्यगोचरम् ।।४०२॥ मैत्री च प्रमोदश्च कारुण्यं च माध्यस्थ्यं च तेषां परिचिन्तनं-स्मरणम् । कीदृशमित्याह सत्त्वाश्च-सर्वे प्राणिनो, गुणाधिकाश्चात्मनः सकाशादधिकगुणवन्तः, क्लिश्यमानाश्च तथाविधशारीरमानसदुःखोपनिपातेन बाधावन्तो, अप्रज्ञाप्याश्चप्रज्ञापयितुमयोग्या रक्तद्विष्टादयः, तत एते यथाक्रमं गोचरा यस्य तत्तथा अध्यात्म इति प्रकृतमेव ॥४०२॥ अत्रैव विशेषमाह
विवेकिनो विशेषेण, भवत्येतद्यथागमम् ।
तथा गम्भीरचित्तस्य, सम्यग् मार्गानुसारिणः ॥४०३॥ विवेकिनो-लब्धपरमार्थविमर्शस्य विशेषेण विशिष्ट वृत्त्या भवत्येतन्मैत्र्यादिचिन्तनरूपमध्यात्म यथागमं आगमनिरूपितक्रमानतिक्रमेण, तस्य प्राय एतत्परिणामचतुष्टयादहिश्चेतोवृत्तेरभावात् कीदृशस्येत्याह 'तथा' इति विशेषणसमुच्चये, गम्भीरचित्तस्य-अनुपलक्ष्यमाणहर्षविषादादिविकारस्य, अत एव 'सम्यग्मार्गामुसारिण:'- शुद्धनिवृत्तिपथस्थितस्येति ॥४०३ ।। अथोपसंहारमाह
एवं विचित्रमध्यात्ममेतदन्वर्थयोगतः ।
आत्मन्यधीतिसंवृत्ते यमध्यात्मचिन्तकैः ॥४०४॥ एवमुक्तन्यायेन विचित्रं अनेकरूपं अध्यात्ममेतत्प्रागुक्तं विज्ञेयं इत्युत्तरेण योगः। कुत इत्याह 'अन्वर्थयोगतः' । एषोऽपि कुत इत्याह आत्मनि
१. सूत्रोक्त:-A.B.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org