Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust
View full book text
________________
योगबिन्दु सूत्र : ३९४-३९५-३९६-३९७
२६५ पुनः ज्ञेयमारब्धकर्मणि अणुव्रतादिपालनरूपे कुतः ? यतः पापकर्मोदयात्पापकर्मविपाकात् अत्र धर्मकर्मणि भयं भङ्गादिविषयं सञ्जायते ततस्तदुपशान्तयेभयोपशमनिमित्तम् ॥३९४॥ किमित्याह
विस्रोतोगमने न्याय्यं, भयादौ शरणादिवत् ।
गुर्वाद्याश्रयणं सम्यक्, ततः स्यादुरितक्षयः ॥३९५॥ विस्रोतोगमने विमार्गप्रवृत्तौ चेतसः सति न्याय्यं-युक्तम् भयादौ-भयरोगविषविकारादिरूप उपस्थिते सति शरणादिवदुर्गादिप्रतिग्रहचिकित्सामन्त्रादेरिव गुर्वाद्याश्रयणं-गुर्वादेः-गुरुदेवसाधर्मिकादेविस्रोतसिकानिग्रहहेतोराश्रयणमङ्गीकरणं सम्यक् यथावत् ततो-गुर्वाद्याश्रयणात् स्याद्-भवेत् दुरितक्षयो-विस्रोतोगमनहेतुकर्मनाशोऽचिन्त्यशक्तियुक्तत्वादस्येति ॥३९५ ॥ अस्यैवाध्यात्मत्वं भावयन्नाह- .
सर्वमेवेदमध्यात्म, कुशलाशयभावतः ।
औचित्याद्यत्र नियमाल्लक्षणं यत्पुरोदितम् ॥३९६ ॥ 'सर्वमेवेदमौचित्यालोचनादि अध्यात्म कुशलाशयभावतः-प्रशस्तचित्तसद्भावात्, अत्र हेतुः "औचित्याद्वृत्तयुक्त" (३५८) श्लोकोक्तं, यत्र स्वौचित्यालोचनादौ नियमाल्लक्षणं स्वरूपं यद्यस्मात् वर्तते इति पुरोदितम् ॥३९६॥ अत्रैव पुनरपि मतान्तरमाह
देवादिवन्दनं सम्यक्, प्रतिक्रमणमेव च ।
मैत्र्यादिचिन्तनं चैतत्, सत्त्वादिष्वपरे विदुः ॥३९७॥ देवादीनां 'देवप्रभृतीनां वन्दनं-स्तवनं नमनरूपम् । सम्यक्प्रतिक्रमणमेव च-"स्वस्थानाद्यत्परं स्थानं, प्रमादस्य वशाद् गतः । भूयोऽप्यागमनं तत्र, प्रतिक्रमणमुच्यते ॥" - इत्येवंलक्षणम् मैत्र्यादिचिन्तनं चैतदध्यात्मम् सत्त्वादिषुसत्त्वगुणाधिकक्लिश्यामानाविनयेषु विषये अपरे विदुर्जानते ॥३९७ ॥ अथ देवादिवन्दनाद्येव क्रमेण व्याचष्टे
१. सर्वमेवेदमात्मौचित्या-AB.; २. देवगुरुप्रभृतीनां-AB.; ३. परस्थानं-A.B.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346