Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust
View full book text
________________
योगबिन्दु सूत्र : ३८६-३८७-३८८-३८९-३९०
तस्येति ॥ ३८६ ॥ अथ जपस्यैव कालमानमाह
यथाप्रतिज्ञमस्येह, कालमानं प्रकीर्तितम् । अतो ह्यकरणेऽप्यत्र, भाववृत्तिं विदुर्बुधाः ॥३८७ ॥ 'यथाप्रतिज्ञं' यस्य यावती प्रतिज्ञा तदनतिक्रमेण । अस्य जपस्य इह विचारे 'कालमानं' द्विघटिकादिरूपं प्रकीर्तितं 'अतो हि' प्रतिज्ञाया एवाभिग्रहरूपाया: ‘अकरणेऽपि' प्रतिज्ञातकालादन्यत्र जपस्य किं पुनः करण इत्यपिशब्दार्थः । अत्र जपे 'भाववृत्तिं ' - मनोवृत्तिरूपां विदुः - 'जानन्ति बुधा इति ॥३८७ ॥ एतदेव भावयति
२६३
मुनीन्दैः शस्यते तेन यत्नतोऽभिग्रहः शुभः ।
सदाऽतो भावतो धर्मः, क्रियाकाले क्रियोद्भवः ॥ ३८८ ॥ मुनीन्द्रैः - मुनिवृन्दारकैः शस्यते - श्लाघ्यते तेनाऽकरणकालेऽपि शुभभाववृत्तिलक्षणेन हेतुना यत्नतो - यत्नात् 'अभिग्रहः शुभः ' शुभार्थविषयः कुतो यतः 'सदा'- सर्वकालं अतो-ऽभिग्रहात् भावतः परिणामशुद्धेः धर्मः - शुभबन्धरूपः । क्रियाकाले ऽभिग्रहानुष्ठानलक्षणे क्रियोद्भवः धर्मः ॥ ३८८ ॥
अध्यात्म एव मतान्तरमाह
स्वौचित्यालोचनं सम्यक् ततो धर्मप्रवर्तनम् । आत्मसम्प्रेक्षणं चैव तदेतदपरे जगुः ॥ ३८९ ॥ 'स्वौचित्यालोचनं' निजयोग्यतापर्यालोचनं सम्यग् - यथावत्प्रथमम् । ततस्तदनन्तरं धर्मे - चैत्यवन्दनाद्यनुष्ठानरूपे प्रवर्तनं कार्यम् 'आत्मसम्प्रेक्षणं चैव' वक्ष्यमाणं किंमित्याह तत्-अध्यात्मं एतत्-त्रितयं अपरे - शास्त्रकारा जगुः ऊचुरिति ॥ ३८९ ॥ अथैतदेव क्रमेण व्याचष्टे
Jain Education International
योगेभ्यो जनवादाच्च, लिङ्गेभ्योऽथ यथागमम् । स्वौचित्यालोचनं प्राहुर्योगमार्गकृतश्रमाः ॥ ३९०॥ योगेभ्यः कायवाङ्मनोव्यापारेभ्यः प्रशस्तगमनशुभभाषणनिरवद्यचिन्तनस्वभावेभ्य: जनवादाद्-लोकप्रवादरूपात् 'चः 'समुच्चये लिङ्गेभ्यो-निमित्तेभ्यः अथ
१. जानन्ते - A; २. लक्षणे पुनः क्रियो - A.B.;
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346