Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust
View full book text
________________
२४५
योगबिन्दु सूत्र : ३२५-३२६-३२७-३२८ किमित्याह कर्म यत्पौर्वदेहिकं-'पूर्वदेहभवं, स्मृतः-अनुध्यात: पुरुषकारस्तुपुरुषकारः पुनः क्रियते-व्यवहारिभिः यदिहापरं-तथाविधे कर्मणि सत्यपि वाणीज्यराजसेवादि ॥३५५॥ एवं च
नेदमात्मक्रियाऽभावे, यतः स्वफलसाधकम् । - अतः पूर्वोक्तमेवेह, लक्षणं तात्त्विकं तयोः ॥३२६॥
न-नैव इदं-कर्म 'आत्मक्रियाभावे'-जीवव्यापारविरहे यतो-यस्मात् 'स्वफलसाधकं'-निजफलकारि क्वचिदुपलभ्यते । अतो-ऽस्माद्धेतोः 'पूर्वोक्तमेव' यत्परस्परोपष्टम्भवत् प्रागुपन्यस्तम् इह-प्रक्रमे लक्षणं स्वरूपम् । तात्त्विकं-सद्भूतम् तयोर्दैवपुरुषकारयोः ॥३२६ ॥ अत्रापि विशेषमाह
दैवं पुरुषकारेण, दुर्बलं युपहन्यते ।
दैवेन चैषोऽपीत्येतनान्यथा चोपपद्यते ॥३२७॥ दैवं पुरुषकारेण-'वीर्यातिरेकलक्षणेन दुर्बलं-तथाविधबलविकलम् 'हि:'स्फुटम् 'उपहन्यते'-स्वफलमुपदधानं प्रतिस्खल्यते । उपदेशपदप्रसिद्धज्ञानगर्भमहामन्त्रिपुरुषकारेणेव स्वकुटुम्बवधाढौककं कर्मेति । दैवेन च-दैवेन पुनर्बलवता 'एषोपि' पुरुषकारोप्युपहन्यते किं पुन: पुरुषकारेण दैवमित्यपिशब्दार्थः, द्वारकावतीदाहप्रवृत्तौ वासुदेवबलदेवपुरुषकार इव । विपर्यये बाधामाह 'इत्येतत्' पूर्वोक्तं परस्परोपहतिलक्षणं वस्तु न-नैव अन्यथा असमबलतायां सत्यां उपपद्यते घटत इति ॥३२७॥ .. एवं परस्परोपघात्योपघातकभावे यत्सिद्धं तदाह
कर्मणा कर्ममात्रस्य, नोपघातादि तत्त्वतः ।
स्वव्यापारगतत्वे तु, तस्यैतदपि युज्यते ॥३२८॥ . कर्मणा-केवलेनैव कर्ममात्रस्य-केवलस्यैव कर्मण: नोपघातादि उपधातानुग्रहौ तत्त्वतो-ऽनुपचारेण । न हि केवलं कर्म 'किञ्चिदनुग्रहीतुं वा क्षममसहायत्वात् । तर्हि कथं स्यादित्याह-स्वव्यापारगतत्वे तु-जीवक्रियाप्रतिबद्धत्वे पुनः तस्य-कर्मणः 'एतदपि'-परस्परोपघात्यादि युज्यते ॥३२८॥
१. पुरुषवीर्य-A: २. कञ्चिद-A. 'क्वचिद्' इति मुद्रितप्रतौ; ३. परस्योपघात्यादि A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346