Book Title: Haribhadra Yogbharti
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 283
________________ २५६ योगबिन्दु सूत्र : ३६२-३६३-३६४-३६५ ज्ञानादिविषयशुभाभ्यासानुकूलभावः तथा सुचित्तवृद्धिश्च सत्प्रकारशुद्धचित्तसमुत्कर्षरूपा किमित्याह 'भावनायाः फलं मतं' इति ॥३६१ ॥ . शुभैकालम्बनं चित्तं, ध्यानमाहुर्मनीषिणः । स्थिरप्रदीपसदृशं, सूक्ष्माभोगसमन्वितम् ॥३६२॥ शुभैकालम्बनं-प्रशस्तैकार्थविषयं चित्तं ध्यान-धर्मध्यानादि आहुर्मनीषिणः ।स्थिरप्रदीपसदृशं-निर्वातगृहोदरज्वलत्प्रदीपप्रतिम सूक्ष्माभोगसमन्वितमुत्पादादिविषयसूक्ष्मोपयोगयुतम् ॥३६२ ॥ अर्थतत्फलम् वशिता चैव सर्वत्र, भावस्तैमित्यमेव च । अनुबन्धव्यवच्छेद उदर्कोऽस्येति तद्विदः ॥३६३॥ वशिता चैवात्मायत्तमेव सर्वत्र कार्ये भावस्तैमित्यमेव च-स्तिमितभावतैव अनुबन्धव्यवच्छेदो-भवान्तरारम्भकाणामितरेषां च कर्मणां 'बन्धाभावकरणमित्यर्थः उदर्क:-फलं अस्य-ध्यानस्य इत्येतदाहुः तद्विदो-ध्यानफलविदः ॥ अविद्याकल्पितेषूच्चैरिष्टानिष्टेषु वस्तुषु । संज्ञानात् तद्व्युदासेन, समता समतोच्यते ॥३६४॥ अविद्याकल्पितेषु-अनादिवितथवासनावशोत्पन्नविकल्पकल्पितशरीरेषु उच्चैः अतीव इष्टानिष्टेष्विन्द्रियमन:प्रमोदप्रदायिषु तदितरेषु च वस्तुषुशब्दादिषु संज्ञानात्-“तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽनिष्टं वा, न विद्यते किञ्चिदिष्टं वा ।"(प्रशमरति-५२) इत्यादिभावनारूपाद्विवेकात् तद्व्युदासेनेष्टानिष्टवस्तुपरिहारेण या समता तुल्यरूपता मनसः, सा समता प्रागुपन्यस्तोच्यते ॥३६४॥ अथैतत्फलम् ऋद्धयप्रवर्तनं चैव, सूक्ष्मकर्मक्षयस्तथा । अपेक्षातन्तुविच्छेदः, फलमस्याः प्रचक्षते ॥३६५॥ ऋद्धीनां आमोषध्यादीनामनुपजीवनेनाऽप्रवर्तनमव्यापारणं, सूक्ष्मकर्मक्षयः -सूक्ष्माणां केवलज्ञानदर्शनयथाख्यातचारित्राद्यावारकाणां कर्मणां-क्षयः, चैवेति तथेति शब्दावुक्तसमुच्चये । तथा, अपेक्षातन्तुविच्छेदोऽपेक्षैव बन्धहेतुत्वात्तन्तुरपे१. वन्थ्यकरण-A.B.C.; २. निश्चयतोऽस्यानिष्टं, इति पाठान्तरं ३. प्रतिपाद्यते-A.; ४. शब्दानुक्तसमुच्चये-AB.C.: Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346