________________
२५६
योगबिन्दु सूत्र : ३६२-३६३-३६४-३६५
ज्ञानादिविषयशुभाभ्यासानुकूलभावः तथा सुचित्तवृद्धिश्च सत्प्रकारशुद्धचित्तसमुत्कर्षरूपा किमित्याह 'भावनायाः फलं मतं' इति ॥३६१ ॥ .
शुभैकालम्बनं चित्तं, ध्यानमाहुर्मनीषिणः ।
स्थिरप्रदीपसदृशं, सूक्ष्माभोगसमन्वितम् ॥३६२॥ शुभैकालम्बनं-प्रशस्तैकार्थविषयं चित्तं ध्यान-धर्मध्यानादि आहुर्मनीषिणः ।स्थिरप्रदीपसदृशं-निर्वातगृहोदरज्वलत्प्रदीपप्रतिम सूक्ष्माभोगसमन्वितमुत्पादादिविषयसूक्ष्मोपयोगयुतम् ॥३६२ ॥ अर्थतत्फलम्
वशिता चैव सर्वत्र, भावस्तैमित्यमेव च ।
अनुबन्धव्यवच्छेद उदर्कोऽस्येति तद्विदः ॥३६३॥ वशिता चैवात्मायत्तमेव सर्वत्र कार्ये भावस्तैमित्यमेव च-स्तिमितभावतैव अनुबन्धव्यवच्छेदो-भवान्तरारम्भकाणामितरेषां च कर्मणां 'बन्धाभावकरणमित्यर्थः उदर्क:-फलं अस्य-ध्यानस्य इत्येतदाहुः तद्विदो-ध्यानफलविदः ॥
अविद्याकल्पितेषूच्चैरिष्टानिष्टेषु वस्तुषु । संज्ञानात् तद्व्युदासेन, समता समतोच्यते ॥३६४॥ अविद्याकल्पितेषु-अनादिवितथवासनावशोत्पन्नविकल्पकल्पितशरीरेषु उच्चैः अतीव इष्टानिष्टेष्विन्द्रियमन:प्रमोदप्रदायिषु तदितरेषु च वस्तुषुशब्दादिषु संज्ञानात्-“तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽनिष्टं वा, न विद्यते किञ्चिदिष्टं वा ।"(प्रशमरति-५२) इत्यादिभावनारूपाद्विवेकात् तद्व्युदासेनेष्टानिष्टवस्तुपरिहारेण या समता तुल्यरूपता मनसः, सा समता प्रागुपन्यस्तोच्यते ॥३६४॥ अथैतत्फलम्
ऋद्धयप्रवर्तनं चैव, सूक्ष्मकर्मक्षयस्तथा ।
अपेक्षातन्तुविच्छेदः, फलमस्याः प्रचक्षते ॥३६५॥ ऋद्धीनां आमोषध्यादीनामनुपजीवनेनाऽप्रवर्तनमव्यापारणं, सूक्ष्मकर्मक्षयः -सूक्ष्माणां केवलज्ञानदर्शनयथाख्यातचारित्राद्यावारकाणां कर्मणां-क्षयः, चैवेति तथेति शब्दावुक्तसमुच्चये । तथा, अपेक्षातन्तुविच्छेदोऽपेक्षैव बन्धहेतुत्वात्तन्तुरपे१. वन्थ्यकरण-A.B.C.; २. निश्चयतोऽस्यानिष्टं, इति पाठान्तरं ३. प्रतिपाद्यते-A.; ४. शब्दानुक्तसमुच्चये-AB.C.:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org