________________
योगबिन्दु सूत्र : ३५८-३५९-३६०-३६१
२५५ पूर्वोदित:-ग्रन्थिविभागोक्तः 'योगोऽध्यात्मादिः'-अध्यात्मभावनाध्यानादिः 'सम्प्रवर्तते' स्वरूपं लभत इति ॥३५७॥ अमुमेव क्रमेण व्याचष्टे
औचित्याद् वृत्तयुक्तस्य, वचनात्तत्त्वचिन्तनम् । मैत्र्यादिसारमत्यन्तमध्यात्मं तद्विदो विदुः ॥३५८॥
औचित्यादुचितप्रवृत्तिरूपात् वृत्तयुक्तस्याणुव्रतमहाव्रतसमन्वितस्य वचनात्जिनप्रणीतात् तत्त्वचिन्तनं-जीवादिपदार्थसार्थपर्यालोचनं मैत्र्यादिसारं-मैत्रीप्रमोद-करुणा-माध्यस्थ्यप्रधानं सत्त्वादिषु अत्यन्तमतीव किमित्याह अध्यात्मयोगविशेष, तद्विद:-अध्यात्मज्ञातारः विदुः-जानते ॥३५८ ॥ अथास्य फलमाह- .
अतः पापक्षयः सत्त्वं, शीलं ज्ञानं च शाश्वतम्। .
तथानुभवसंसिद्धममृतं ह्यद एव तु ॥३५९॥ अतो-ऽध्यात्मात् पापक्षयो-ज्ञानावरणादिक्लिष्टकर्मप्रलयः सत्त्वंवीर्योत्कर्षः शीलं-चित्तसमाधि: ज्ञानं च-वस्त्ववबोधरूपम्, शाश्वतमप्रतिपाति शुद्धरत्नतेजोवत्, तथेति वक्तव्यान्तरसमुच्चये, अनुभवसंसिद्धं-स्वसंवेदनप्रत्यक्षं 'तवृत्तम् अमृतं-पीयूषम् हिः-स्फुटं अद एव तु इदमेवाध्यात्मं पुनः, अतिदारुणमोहविषविकारनिराकारकत्वादस्येति ॥३५९ ॥ (अथ भावनां व्याचष्टे)
अभ्यासोऽस्यैव विज्ञेयः, प्रत्यहं वृद्धिसङ्गतः ।
मनःसमाधिसंयुक्तः पौन:पुन्येन भावना ॥३६०॥ - अभ्यासो-ऽनुवर्तनम् . अस्यैवाध्यात्मस्य विज्ञेयः प्रत्यहं-प्रतिदिवसं वृद्धिसङ्गत:-समुत्कर्षमनुभवन् मनःसमाधिसंयुक्तश्चित्तनिरोधयुक्तः, कथमित्याह पौन:पुन्येन-भूयोभूय इत्यर्थः, भावना-द्वितीयो योगभेद इति ॥३६० ॥ अथैतत्फलमाह
निवृत्तिरशुभाभ्यासाच्छुभाभ्यासानुकूलता ।।
तथा सुचित्तवृद्धिश्च, भावनायाः फलं मतम् ॥३६१॥ निवृत्तिरुपरति: अशुभाभ्यासात्-कामक्रोधादिगोचरात् शुभाभ्यासानुकूलता
१. तद्वताम्-A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org