________________
२५४
योगबिन्दु सूत्र : ३५४-३५५-३५६-३५७ असातोदयशून्योऽन्धः, कान्तारपतितो यथा । . .
गादिपरिहारेण, सम्यक्तत्राभिगच्छति ॥३५४॥ असातोदयशून्योऽसद्वेदनीयविपाकरहितः अन्धः प्रतीतरूप: कान्तारपतितोदण्डकारण्यादिमहाटवीमध्यमग्न: 'यथा' इति दृष्टान्तार्थ: गादिपरिहारेणगर्तादरीप्रभृतिविषममार्गत्यागेन सम्यग् = यथा विवक्षितस्थानावाप्तिः स्यात्तथा तत्र कान्तारे अभिगच्छति-गन्तुं प्रवर्तते ॥३५४॥ . ..
तथायं भवकान्तारे, पापादिपरिहारतः । ।
श्रुतचक्षुर्विहीनोऽपि, सत्सातोदयसंयुतः ॥३५५॥ तथायं-चारित्री भवकान्तारे-संसाराटव्याम् पापादिपरिहारतः-पापकारणपापफलपरित्यागेन श्रुतमेव-सद्भूतार्थावलोकहेतुत्वाच्चक्षुस्तेन विहीनोऽपि माषतुषादिवद्विरहितः किं पुनस्तदन्यरूप इत्यपिशब्दार्थः, सन्-अतिदृढतया यः सुन्दरः सातोदयस्तेन संयुतः ॥३५५ ॥ अत्रैव व्यतिरेकमाह
अनीदृशस्य तु पुनश्चारित्रं शब्दमात्रकम् ।
ईदृशस्यापि वैकल्यं, विचित्रत्वेन कर्मणाम् ॥३५६॥ . अनीदृशस्य तु पुनर्मार्गानुसारित्वादिलिङ्गविकलस्य पुनः चारित्रं-देशतः सर्वतो वा शब्दमात्रकं-शब्दरूपमेव न त्वर्थतोऽपि । ननु सम्यग्दृष्टेरविरतस्यापि मार्गानुसारित्वमस्ति कथं न चारित्रमित्याशंक्याह 'ईदृशस्यापि' मार्गानुसारिणोऽपि कस्यचित् 'वैकल्यं' चारित्रस्य कथमित्याह 'विचित्रत्वेन' निकाचितादिरूपतया कर्मणां-चारित्रमोहादीनाम् । तथा चोक्तम्-कम्माइं नूणं घणचिक्कणाइ, गरुयाई वज्जसाराई ॥ नाणड्ढ्यं पि पुरिसं, 'पहाओ उप्पहं नेन्ति ॥३५६ ॥ अथ प्रकृतयोगसन्धानार्थमाह
देशादिभेदतश्चित्रमिदं चोक्तं महात्मभिः ।
अत्र पूर्वोदितो योगोऽध्यात्मादिः सम्प्रवर्तते ॥३५७॥ देशादिभेदतो-देशसर्वविशेषात् चित्रं-नानारूपं इदं चैतत्पुनश्चारित्रम् उक्तं महात्मभिस्तीर्थकरगणधरादिभिः, ततः किमित्याह अत्र-चारित्रे सति जीवस्य,
१. पंथाओ उप्पहं-B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org