________________
योगबिन्दु सूत्र : ३५०-३५१-३५२-३५३
२५३ देवपूजनादि शुभं-शोभनं मतम् । कुत इत्याह 'क्षीणसंसारचक्राणां'-निवृत्तप्रायभवभ्रमणानां सम्यग्दृष्ट्यादीनां ग्रन्थिभेदात्-उक्तरूपात् अयं क्षयोपशमः यतः-यस्मात्कारणान्मतः ॥३५०॥
भाववृद्धिरतोऽवश्यं, सानुबन्धं शुभोदयम् ।। - गीयतेऽन्यैरपि ह्येतत्, सुवर्णघटसन्निभम् ॥३५१॥
भाववृद्धि:-भावोत्कर्षरूपा अत:-सत्क्षयोपशमात् अवश्यं-नियमवती भवतीति । अत्रैव परमतमाह 'सानुबन्धं शुभोदयं'-प्रशस्तफलं गीयतेप्रतिपाद्यते, अन्यैरपि हि सौगतादिभिर्न केवलमस्माभिरित्यपिशब्दार्थः, एतत् शुभमनुष्ठानं सुवर्णघटसत्रिभं-यथा सुवर्णघटो भिद्यमानोऽपि न सुवर्णानुबन्धं मुञ्चति, एवं शुभमनुष्ठानं तथाविधकषायोदयाद्भग्नमपि शुभफलमेवेति ॥३५१॥
एवं तु वर्तमानोऽयं, चारित्री जायते ततः । _पल्योपमपृथक्त्वेन विनिवृत्तेन कर्मणः ॥३५२॥
एवं त्वेवमेव सानुबन्धसत्क्षयोपशमानुरूपं वर्तमानोऽयं-भिन्नग्रन्थि वः चारित्री-देशविरतरूपो जायते । ततो-ग्रन्थिभेदात्सकाशात् पल्योपमपृथक्त्वेन"द्विप्रभृत्यानवभ्यः पृथक्त्वं"तेन विनिवृत्तेन-क्षयमुपगतेन कर्मणश्चारित्रमोहादेः । सर्वविरतिचारित्री तु संख्यातेषु सागरोपमेषु निवृत्तेषु । तथा चार्षम्-"सम्मत्तंमि उ लद्धे, पलियपुहुत्तेण सावओ होज्जा । चरणोवसमखयाणं, सागरसङन्तरा होन्ति" (१२२२-विशेषा.) ॥३५२॥
लिङ्ग मार्गानुसार्येष, श्राद्धः प्रज्ञापनाप्रियः ।
गुणरागी महासत्त्वः, सच्छक्तयारम्भसङ्गतः ॥३५३॥ लिङ्ग-चिह्नम् कीदृशमस्येत्याह 'मार्गानुसारी' वक्ष्यमाणन्यायेन 'एष' चारित्री, तथा श्राद्धः-कान्तारोत्तीर्णब्राह्मणहवि: पूर्णगोचररुचेरतिशायिन्या श्रद्धया सङ्गतः, प्रज्ञापनाप्रियः-गुणवत्पुरुषप्रज्ञापनाप्रीतिमान् सन्निधिलाभयोग्यजीव इव तद्गतक्रियां प्रतीति, गुणरागी-गुणानुरागी महासत्त्व:- प्रशस्तपुरुषकारः सच्छक्त्यारम्भसङ्गतः-सता-सुन्दरपरिणामेन शक्येन-कर्तुं पार्यमाणेनाऽऽरम्भेण धर्मार्थादिगोचरेण इति ॥३५३॥
अथ बहुविषयत्वान्मार्गानुसारित्वमेव भावयति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org