________________
२५२ योगबिन्दु सूत्र : ३४६-३४७-३४८-३४९-३५० अनुष्ठानात्-चैत्य'वन्दनरूपात् औचित्येन-तत्तद्रव्यक्षेत्रकालाद्यनुरूपेण उत्तरं अपरं भवेत् तदाश्रित्याऽपेक्ष्य 'उपदेशोऽपि' किं पुनः स्वत एव प्रवृत्तेऽनुष्ठाने उपदेशो विफल इत्यपिशब्दार्थः ज्ञेयोऽवगन्तव्यः फलवान् । कीदृश इत्याह 'विध्यादिगोचरो'-विधेयेतरयोविधिप्रतिषेधविषयः । अत एव पठ्यते - "उवएसो वि हु सफलो, गुणठाणारम्भगाण जीवाण । परिवडमाणाण तहा, पायं न हु तट्ठियाणं पि ॥१॥" (४९९, उ.प.) . ॥३४७॥ ... अप्रारब्धानुष्ठानस्यापि जन्तोः कदाचिदुपदेशो दीयत इत्याह
प्रकृतेर्वानुगुण्येन चित्रः सद्भावसाधनः ।
गम्भीरोक्तया मितश्चैव, शास्त्राध्ययनपूर्वकः ॥३४८॥
प्रकृतेर्बालमध्यमबुद्धिबुद्धत्वलक्षणायाः 'वा' इत्यथवा आनुगुण्येनाऽनुवर्तनेन चित्रो-नानारूप: सद्भावसाधन:-शुद्धभावसम्पादक उपदेशो मतिमतां प्रवर्तते । पुनरपि कीदृश इत्याह गम्भीरोक्त्या-अतिनिपुणवचनरचनारूपयोपलक्षितः सूक्ष्मबुद्धिहेतुत्वात्, 'मितः'-परिमितोऽपरिमितस्य वैरस्य हेतुत्वात् (?विरसभावे हेतुत्वात्) 'चैव' इति समुच्चये, शास्त्राध्ययनपूर्वक:-शास्त्राध्ययनं शास्त्रगतपाठोच्चारणं पूर्व प्रथमं यस्य स तथा, दृढप्रतीतिहेतुत्वात् ॥३४८ ॥ इदमेव भावयति
शिरोदकसमो भाव, आत्मन्येव व्यवस्थितः ।
प्रवृत्तिरस्य विज्ञेया, चाभिव्यक्तिस्ततस्ततः ॥३४९॥ शिरोदकसमस्तथाविधकूपे सहजप्रवृत्तशिराजलतुल्य: 'भाव:'-'शुद्धरूप: परिणाम: 'आत्मन्येव' जीव एव सम्यग्दृष्ट्यादौ 'व्यवस्थितः' । ततः किमित्याह प्रवृत्तिरस्य भावस्य विज्ञेया चाभिव्यक्ति:-प्रकटभावः, ततस्ततःचित्रादुपदेशात् कूपखननादिकल्पात् ॥३४९॥ एतदपि कुत इत्याह
सत्क्षयोपशमात्सर्वमनुष्ठानं शुभं मतम् ।
क्षीणसंसारचक्राणां, ग्रन्थिभेदादयं यतः ॥३५०॥ सत्क्षयोपशमात् सानुबन्धमिथ्यात्वमोहादिमलप्रलयविशेषात् सर्वमनुष्ठानं
१. वन्दनादिरूपात्-A.B.C.; २. शुभरूप:-A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org